Skip to main content
Search
Ch. 2 KS 2.23
Full Chapter
KS • Chapter 2: Canto 2

KS 2.23

Canonical Ref: KS 2.23
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
यमोऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा । कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): यम इति ॥ अस्तं नाशमिताः प्राप्ताः । अस्तमिति मकारान्तमव्ययम् । तस्य `द्वीतीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः` इति समासः । अस्तमितास्त्विषो यस्य तेन निस्तेजस्केन दण्डेन यमोऽपि भूमिं विलिखन्नमोघेऽपि प्रागिति भावः । अस्मिन्दण्डे निर्वाणालातस्य शान्तोल्मुकस्य । अलातं नाम भूलेखनशलाका तस्य यल्लाघवं क्लैब्यं तत्कुरुते । `अलातमुल्मुकं ज्ञेयम्` इति हलायुधः । निर्वाणोऽवाते` इति निपातनान्निष्ठानत्वम् । अत्रापि लाघवमिव लाघवमिति कल्पनान्निदर्शनालंकारः अन्वयः: अस्तमितत्विषा दण्डेन भूमिं विलिखन् यमोऽपि अमोघे अपि अस्मिन् निर्वाणाऽलातलाघवं कुरुते ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
यमो
Lemma: यम
POS: m
ऽपि
Lemma: अपि
POS: ind
विलिखन्
Lemma: विलिख्
POS: 6. P.
भूमिं
Lemma: भूमि
POS: f
दण्डेनास्तमितत्विषा
Lemma: दण्ड
POS: mn
दण्डेनास्तमितत्विषा
Lemma: अस्तमित
POS: adj
दण्डेनास्तमितत्विषा
Lemma: त्विष्
POS: f
कुरुते
Lemma: कृ
POS: 2. Ā. • Verb: कुरुते
ऽस्मिन्न्
Lemma: इदम्
POS: pron
अमोघे
Lemma: अमोघ
POS: adj
ऽपि
Lemma: अपि
POS: ind
निर्वाणालातलाघवम्
Lemma: निर्वा
POS: 2. P.
निर्वाणालातलाघवम्
Lemma: अलात
POS: n
निर्वाणालातलाघवम्
Lemma: लाघव
POS: n
Canonical CTS URN Reference
Kumārasambhavam, KS 2.23. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.22) All Verses in Chapter 2 Next Verse (KS 2.24) →