Skip to main content
Search
Ch. 2 KS 2.30
Full Chapter
KS • Chapter 2: Canto 2

KS 2.30

Canonical Ref: KS 2.30
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
स द्विनेत्रो हरेश्चक्षुः सहस्रनयनाधिकम् । वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स इति ॥ हरेरिन्द्रस्य। `इन्द्रो दुश्च्यवनो हरिः` इति हलायुधः । सहस्रान्नयनेभ्योऽधिकं सहस्रनयनाधिकम् । तदगोचरदर्शित्वादिति भावः । द्वे नेत्रे यस्य तद्‌द्विनेत्रम् । प्रसिद्धाच्चक्षुषोऽयं विशेष इत्यर्थः । चक्षुश्चक्षुर्भूतः । स च वाचस्पतिः । कस्कादित्वादलुक्सत्वे । `षष्ठ्याः पतिपुत्र-` इत्यादिना सत्वमिति स्वामी । तन्न, छन्दोविषयत्वात् । प्राञ्जलिः सन्। जलजासनं ब्रह्माणमिदमुवाच चक्षुष्ट्वारोपस्य प्रकृतोपयोगात्परिणामालङ्कारः अन्वयः: हरेः सहस्रनयनाऽधिकं द्विनेत्रं चक्षुः स वाचस्पतिः प्राञ्जलिः (सन्) जलजासनम् इदम् उवाच ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
स
Lemma: तद्
POS: pron
द्विनेत्रो
Lemma: द्वि
POS: nr
द्विनेत्रो
Lemma: नेत्र
POS: mn
हरेश्
Lemma: हरि
POS: m
चक्षुः
Lemma: चक्षुस्
POS: n
सहस्रनयनाधिकम्
Lemma: सहस्र
POS: mn
सहस्रनयनाधिकम्
Lemma: नयन
POS: n
सहस्रनयनाधिकम्
Lemma: अधिक
POS: adj
वाचस्पतिर्
Lemma: वाचस्पति
POS: m
उवाचेदं
Lemma: वच्
POS: 2. P. • Verb: उवाच
उवाचेदं
Lemma: इदम्
POS: pron
प्राञ्जलिर्
Lemma: प्राञ्जलि
POS: adj
जलजासनम्
Lemma: जलजासन
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 2.30. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.29) All Verses in Chapter 2 Next Verse (KS 2.31) →