Skip to main content
Search
Ch. 2 KS 2.21
Full Chapter
KS • Chapter 2: Canto 2

KS 2.21

Canonical Ref: KS 2.21
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः । मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): किं चेति ॥ किं चायमरिदुर्वारो रिपुदुष्प्रधर्षः प्रचेतसो वरुणस्य । `प्रचेता वरुणः पाशी` इत्यमरः (अ.को.1|1|73) । पाणौ पाशो रज्जुरायुधविशेषः । मन्त्रेण गारुडेन हतवीर्यस्य प्रतिबद्धशक्तेः । फणिनः सर्पस्य दैन्यं शोच्यत्वमाश्रितः । अत्र फणिनिष्ठदैन्यस्य पाशेऽसम्भवाद्दैन्यमिव दैन्यमिति कल्पनादसंभवद्वस्तुसंबन्धो निदर्शनालंकारः अन्वयः: किं च अयम् अरिदुर्वारः प्रचेतसः पाणौ पाशः मन्त्रेण हतवीर्यस्य फणिनो दैन्यम् आश्रितः ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
किं
Lemma: किम्
POS: ind
चायम्
Lemma: च
POS: ind
चायम्
Lemma: इदम्
POS: pron
अरिदुर्वारः
Lemma: अरि
POS: m
अरिदुर्वारः
Lemma: दुर्वार
POS: adj
पाणौ
Lemma: पाणि
POS: m
पाशः
Lemma: पाश
POS: m
प्रचेतसः
Lemma: प्रचेतस्
POS: m
मन्त्रेण
Lemma: मन्त्र
POS: mn
हतवीर्यस्य
Lemma: हन्
POS: 6. P.
हतवीर्यस्य
Lemma: वीर्य
POS: n
फणिनो
Lemma: फणिन्
POS: m
दैन्यम्
Lemma: दैन्य
POS: n
आश्रितः
Lemma: आश्रि
POS: 1. Ā.
Canonical CTS URN Reference
Kumārasambhavam, KS 2.21. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.20) All Verses in Chapter 2 Next Verse (KS 2.22) →