Skip to main content
Search
Ch. 2 KS 2.16
Full Chapter
KS • Chapter 2: Canto 2

KS 2.16

Canonical Ref: KS 2.16
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः । प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): इतीति ॥ वेधा ब्रह्मेति तेभ्यो देवेभ्यः । `आख्यातोपयोगे` (पा.1|4|29) इत्यपादानत्वात्पञ्चमी । यथार्थाः सत्या अत एव हृदयं गच्छन्तीति हृदयंगमा मनोहराः । खच्प्रकरणे `गमेः सुप्युपसंख्यानम्` इति खच्प्रत्ययः । `अरुर्द्विषजन्तस्य मुम्` इति मुमागमः । स्तुतीः स्तोत्राणि श्रुत्वा प्रसादाभिमुखोऽनुग्रहप्रवणः सन् । दिवौकसो देवान्प्रत्युवाच अन्वयः: वेधा इति तेभ्यः यथार्थाः हृदयङ्गमाः स्तुतीः श्रुत्वा प्रसादाऽभिमुखः (सन्) दिवौकसः प्रत्युवाच

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
इति
Lemma: इति
POS: ind
तेभ्यः
Lemma: तद्
POS: pron
स्तुतीः
Lemma: स्तुति
POS: f
श्रुत्वा
Lemma: श्रु
POS: 4. P.
यथार्था
Lemma: यथार्थ
POS: adj
हृदयंगमाः
Lemma: हृदयंगम
POS: adj
प्रसादाभिमुखो
Lemma: प्रसाद
POS: m
प्रसादाभिमुखो
Lemma: अभिमुख
POS: adj
वेधाः
Lemma: वेधस्
POS: m
प्रत्युवाच
Lemma: प्रतिवच्
POS: 3. Ā. • Verb: प्रत्युवाच
दिवौकसः
Lemma: दिवौकस्
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 2.16. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.15) All Verses in Chapter 2 Next Verse (KS 2.17) →