Skip to main content
Search
Ch. 2 KS 2.17
Full Chapter
KS • Chapter 2: Canto 2

KS 2.17

Canonical Ref: KS 2.17
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता । प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): पुराणस्येति ॥ द्रव्यगुणक्रियाजातिभेदेन चत्वारोऽवयवा यस्या इति चतुष्टयो चतुर्विधा । `संख्याया अवयवे तयप्` (पा.5|2|42) इति तयप् । `टिङ्ढाणञ्द्वयसच्-` इत्यादिना ङीप् । शब्दानां प्रवृत्तिर्वैखरीप्रमुखा वाग्वृत्तिः । उक्तं च- `वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा । द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥` इति । पुराणास्य पुरातनस्य । पृषोदरादित्वात्साधुः । कवेः कवयितुस्तस्य ब्रह्मणश्चतुर्भिर्मुखैः समीरिता सती । `तद्धितार्थ-` इत्यादिनोत्तरपदसमासः । समाहारे चतुर्मुखीति स्यात् । चरितार्थान्वर्थासीत् । चतुर्मुखोच्चारणाच्चातुर्विध्यं सफलमासीदित्यर्थः अन्वयः: चतुष्टयी शब्दानां प्रवृत्तिः पुराणस्य कवेः तस्य चर्तुर्मुखसमीरिता (सती) चरितार्था आसीत् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
पुराणस्य
Lemma: पुराण
POS: adj
कवेस्
Lemma: कवि
POS: m
तस्य
Lemma: तद्
POS: pron
चतुर्मुखसमीरिता
Lemma: चतुर्मुख
POS: m
चतुर्मुखसमीरिता
Lemma: समीरय्
POS: 10. Ā.
प्रवृत्तिर्
Lemma: प्रवृत्ति
POS: f
आसीच्
Lemma: अस्
POS: 2. P. • Verb: आसीत्
छब्दानां
Lemma: शब्द
POS: m
चरितार्था
Lemma: चरितार्थ
POS: adj
चतुष्टयी
Lemma: चतुष्टय
POS: fn
Canonical CTS URN Reference
Kumārasambhavam, KS 2.17. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.16) All Verses in Chapter 2 Next Verse (KS 2.18) →