Skip to main content
Search
Ch. 2 KS 2.18
Full Chapter
KS • Chapter 2: Canto 2

KS 2.18

Canonical Ref: KS 2.18
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
स्वागतं स्वानधीकारान्प्रभावैरवलम्ब्य वः । युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स्वागतमिति ॥ हे प्राज्यविक्रमाः प्रभूतपराक्रमा देवाः । `प्राज्यं भूरिप्रभूतं च` इति यादवः । स्वान्स्वकीयानधिकारान्नियोगान् । `उपसर्गस्य घञि-` इति वा दीर्घः । प्रभावैः सामर्थ्यैरवलम्ब्यास्थाय । यथाधिकारं स्थित्वापीत्यर्थः । युगपत्समकालं प्राप्तेभ्यः । युगपत्प्राप्त्या महत्कार्यमनुमीयत इति भावः । युगबाहुभ्यः । दीर्घबाहुभ्य इत्यर्थः । अजानुबाहुत्वं भाग्यलक्षणम् । वो युष्मभ्यम् ।`बहुवचनस्य वस्नसौ` (पा.8|1|21) इति वसादेशः । `कर्मणा यमभिप्रैति-` इत्यत्र कर्मपदेन क्रियाग्रहणात्संप्रदानत्वम् । स्वागतं शोभनागमनम् । काकुरत्रानुसंधेया अन्वयः: हे प्राज्यविक्रनाः ! स्वान् अधिकारान् प्रभावैः अवलम्ब्य युगपत् प्राप्तेभ्यः युगबाहुभ्यो वः स्वागतम्

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
स्वागतं
Lemma: स्वागत
POS: n
स्वान्
Lemma: स्व
POS: adj
अधीकारान्
Lemma: अधीकार
POS: m
प्रभावैर्
Lemma: प्रभाव
POS: m
अवलम्ब्य
Lemma: अवलम्ब्
POS: 1. P.
वः
Lemma: त्वद्
POS: pron
युगपद्
Lemma: युगपद्
POS: ind
युगबाहुभ्यः
Lemma: युग
POS: mn
युगबाहुभ्यः
Lemma: बाहु
POS: mf
प्राप्तेभ्यः
Lemma: प्राप्
POS: 1. P.
प्राज्यविक्रमाः
Lemma: प्राज्य
POS: adj
प्राज्यविक्रमाः
Lemma: विक्रम
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 2.18. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.17) All Verses in Chapter 2 Next Verse (KS 2.19) →