Skip to main content
Search
Ch. 2 KS 2.26
Full Chapter
KS • Chapter 2: Canto 2

KS 2.26

Canonical Ref: KS 2.26
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
आवर्जितजटामौलिविलम्बिशशिकोटयः । रुद्राणामपि मूर्धानः क्षतहुंकारशंसिनः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): आवर्जितेति ॥ आवर्जितेषु परिभवदुःखावनम्रेषु जटानां मोलिषु जटाजूटेषु विलम्बिन्यः स्त्रंसिन्यः शशिकोटयश्चन्द्ररेखा येषां ते तथोक्ताः । रुद्राणामपि । एकादशानामिति शेषः । मूर्धानः क्षतं हुङ्कारं शंसन्तीति तथोक्ताः । हुङ्कारक्षत्यनुमापका इत्यर्थः । हुङ्कारशस्त्रा हि रुद्रा इति भावः अन्वयः: आवर्जीतजटामौलिविलम्बिशशकोटयो रुद्राणां अपि मूर्धानः क्षतहुङ्कारशंसिनः ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
आवर्जितजटामौलिविलम्बिशशिकोटयः
Lemma: आवर्जय्
POS: 10. P.
आवर्जितजटामौलिविलम्बिशशिकोटयः
Lemma: जटा
POS: f
आवर्जितजटामौलिविलम्बिशशिकोटयः
Lemma: मौलि
POS: mf
आवर्जितजटामौलिविलम्बिशशिकोटयः
Lemma: विलम्बिन्
POS: adj
आवर्जितजटामौलिविलम्बिशशिकोटयः
Lemma: शशिन्
POS: m
आवर्जितजटामौलिविलम्बिशशिकोटयः
Lemma: कोटि
POS: f
रुद्राणाम्
Lemma: रुद्र
POS: m
अपि
Lemma: अपि
POS: ind
मूर्धानः
Lemma: मूर्धन्
POS: m
क्षतहुंकारशंसिनः
Lemma: क्षन्
POS: 8. Ā.
क्षतहुंकारशंसिनः
Lemma: हुंकार
POS: m
क्षतहुंकारशंसिनः
Lemma: शंसिन्
POS: adj
Canonical CTS URN Reference
Kumārasambhavam, KS 2.26. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.25) All Verses in Chapter 2 Next Verse (KS 2.27) →