अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
अस्तीति । उत्तरस्यां दिशि । अनेनास्य देवभूमित्वं सूच्यते । देवतात्माधिष्ठाता यस्य सः । एतेनास्य वक्ष्यमाणमेनकापरिणयपार्वतीजननादिचेतनव्यवहारयोग्यत्वसिद्धिः। हिमस्यालयः स्थानमिति हिमालयो नाम हिमालय इति प्रसिद्धः । अधिको राजाधिराजः । `राजाहःसखिभ्यष्टच्` । न गच्छन्तीति नगा अचलास्तेषामधिराजो नगाधिराजोऽस्ति । कथंभूतः । पुर्वापरौ प्राच्यपश्चिमौ तोयनिधी समुद्रौ वगाह्य प्रविश्य । अतएव पृथिव्या भूमेर्मानं हस्तादिना परिच्छेदः । भावे ल्युट् । तस्य दण्डः । यद्वा मीयतेऽनेनेति मानम् । करणे ल्युट् । स चासौ दण्डश्च स इव स्थितः । आयामपरिच्छेदकदण्ड इव स्थित इत्यर्थः । पूर्वापरसागरावगाहित्वं चास्य हिमालयस्यास्त्येव । उक्तं च ब्रह्माण्डपुराणे - `कैलासो हिमवांश्चैव दक्षिणे वर्षवर्वतौ । पूर्वपश्चिमगावेतवर्णवान्तरुपस्थितौ` ॥ अत्र हिमाचलस्योभयाब्धिव्याप्तसाम्यान्मानदण्डत्वेनोत्प्रेक्षणादुत्प्रेक्षाऽलंकारः । `प्रकृतेऽप्रकृतगुणक्रियादिसम्बन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा` इत्यलंकारसर्वस्वकारः । अस्मिन्सर्गे प्रायेण वृत्तमुपजातिः। क्वचिदिन्द्रवज्रोपेन्द्रवज्रे च । तल्लक्षणं तु - `स्यादिन्द्रवज्रा यदि तौ जगौ गः`। `उपेन्द्रवज्राजतजास्ततो गौ`। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ इति
अन्वयः:
उत्तरस्यां दिशि देवतात्मा हिमालयः नाम नगाधिराजः पूर्वापरौ तोयनिधी वगाह्य पृथिव्याः मानदण्डः इव स्थितः अस्ति ।
Morphemic Decomposition & Padaccheda
अस्त्य्
अस् [2. P.]
उत्तरस्यां
उत्तर [adj]
दिशि
दिश् [f]
देवतात्मा
देवता [f]
देवतात्मा
आत्मन् [m]
हिमालयो
हिमालय [m]
नाम
नाम [ind]
नगाधिराजः
नग [m]
नगाधिराजः
अधिराज [m]
पूर्वापरौ
पूर्व [pron]
पूर्वापरौ
अपर [pron]
तोयनिधी
तोयनिधि [m]
विगाह्य
विगाह् [1. P.]
स्थितः
स्था [1. Ā.]
पृथिव्या
पृथिवी [f]
इव
इव [ind]
मानदण्डः
मान [n]
मानदण्डः
दण्ड [mn]