Skip to main content
Search
Ch. 1 KS 1.13
Full Chapter
KS • Chapter 1: Canto 1

KS 1.13

Canonical Ref: KS 1.13
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्रमरीचिगौरैः । यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश्चमर्यः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): लाङ्गूलेति ॥ चमर्यो मृगीविशेषा इतस्ततो लाङ्गूलानि वालधयः । `पुच्छोऽस्त्री लोमलाङ्गूले वालहस्तश्च वालधिः` इत्यमरः । तेषां विक्षेपैर्विधूननैर्विसर्पिंण्यो विसृमराः शोभाः कान्तयो येषां तैश्चन्द्रमरीचिभिरिव गौरैः शुभ्रैः । `गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च` इति यादवः । `उपमानानि सामान्यवचनैः` (पा.2|1|55)इति समासः । वालव्यजनैश्चामरैर्यंस्य हिमाद्रेर्गिरिराजशब्दं गिरिराज इति संज्ञामर्थंयुक्तमभिधेयवन्तं कुर्वन्ति । राजानो हि छत्रचामरादिचिह्निता इति भावः अन्वयः: चमर्यः इतस्ततः लाङ्गूलविक्षेपविसर्पिशोभैः चन्द्रमरीचिगौरैः वालव्यजनैः यस्य गिरिराजशब्दम् अर्थयुक्तं कुर्वन्ति ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
लाङ्गूलविक्षेपविसर्पिशोभैर्
Lemma: लाङ्गूल
POS: n
लाङ्गूलविक्षेपविसर्पिशोभैर्
Lemma: विक्षेप
POS: m
लाङ्गूलविक्षेपविसर्पिशोभैर्
Lemma: विसर्पिन्
POS: adj
लाङ्गूलविक्षेपविसर्पिशोभैर्
Lemma: शोभ
POS: adj
इतस्
Lemma: इतस्
POS: ind
ततश्
Lemma: ततस्
POS: ind
चन्द्रमरीचिगौरैः
Lemma: चन्द्र
POS: m
चन्द्रमरीचिगौरैः
Lemma: मरीचि
POS: mf
चन्द्रमरीचिगौरैः
Lemma: गौर
POS: adj
यस्यार्थयुक्तं
Lemma: यद्
POS: pron
यस्यार्थयुक्तं
Lemma: अर्थ
POS: mn
यस्यार्थयुक्तं
Lemma: युज्
POS: 6. Ā.
गिरिराजशब्दं
Lemma: गिरिराज
POS: m
गिरिराजशब्दं
Lemma: शब्द
POS: m
कुर्वन्ति
Lemma: कृ
POS: 2. Ā. • Verb: कुर्वन्ति
वालव्यजनैश्
Lemma: वाल
POS: m
वालव्यजनैश्
Lemma: व्यजन
POS: n
चमर्यः
Lemma: चमरी
POS: f
Canonical CTS URN Reference
Kumārasambhavam, KS 1.13. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.12) All Verses in Chapter 1 Next Verse (KS 1.14) →