Skip to main content
Search
Ch. 1 KS 1.12
Full Chapter
KS • Chapter 1: Canto 1

KS 1.12

Canonical Ref: KS 1.12
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): दिवाकरादिति ॥ यो हिमाद्रिर्दिवा दिवसे भीतं भयाविष्टमिव । उलूकमिवेति च ध्वनिः । गुहासु लीनमन्धकारं ध्वान्तम् । दिवा दिनं करोतीति दिवाकरस्तस्माद्दिवाकरात् । `दिवाविभानिशाप्रभाभास्करे-` त्यादिना टप्रत्ययः । `भीत्रार्थानां भयहेतुः` (पा.1|4|25) इत्यपादानत्वात्पञ्चमी । रक्षति त्रायते । ननु क्षुद्रसंरक्षणमनर्हमित्याशङ्क्याह- क्षुद्र इति । उच्चै:- शिरसामुन्नतानां शरणं प्रपन्ने शरणागते क्षुद्रे नीचेऽपि सति सज्जन इव नूनं ममत्वं ममायमित्यभिमानः । अस्तीति शेषः । ममशब्दात्त्वप्रत्ययः । अर्थान्तरन्यासोऽलङ्कारः अन्वयः: यो दिवाभीतम् इव गुहासु लीनम् अन्धकारं दिवाकरात् रक्षति । उच्चैःशिरसां शरणं प्रपन्ने क्षुद्रेऽपि सति इव नूनं ममत्त्वम् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
दिवाकराद्
Lemma: दिवाकर
POS: m
रक्षति
Lemma: रक्ष्
POS: 4. P. • Verb: रक्षति
यो
Lemma: यद्
POS: pron
गुहासु
Lemma: गुहा
POS: f
लीनं
Lemma: ली
POS: 1. Ā.
दिवा
Lemma: दिवा
POS: ind
भीतम्
Lemma: भी
POS: 1. Ā.
इवान्धकारम्
Lemma: इव
POS: ind
इवान्धकारम्
Lemma: अन्धकार
POS: mn
क्षुद्रे
Lemma: क्षुद्र
POS: adj
ऽपि
Lemma: अपि
POS: ind
नूनं
Lemma: नूनम्
POS: ind
शरणं
Lemma: शरण
POS: n
प्रपन्ने
Lemma: प्रपद्
POS: 4. P.
ममत्वम्
Lemma: ममत्व
POS: n
उच्चैःशिरसां
Lemma: उच्चैस्
POS: ind
उच्चैःशिरसां
Lemma: शिरस्
POS: n
सतीव
Lemma: सत्
POS: adj
सतीव
Lemma: इव
POS: ind
Canonical CTS URN Reference
Kumārasambhavam, KS 1.12. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.11) All Verses in Chapter 1 Next Verse (KS 1.13) →