Skip to main content
Search
Full Chapter
KS • Chapter 1: Canto 1

KS 1.7

Canonical Ref: KS 1.7
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): न्यस्ताक्षरा इति ॥ यत्र हिमाद्रौ धातुरसेन सिन्दूरादिद्रवेण `श्रृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः` इत्यमरः । न्यस्ताक्षरा लिखितवर्णा अत एव कुञ्जरस्य ये बिन्दवः काये वयोविशेषभाविनः पद्मकाख्याः । पद्मकं बिन्दुजालकम्` इत्यमरः । त इव शोणा रक्तवर्णाः । लिखितभागेष्विति शेषः । भूर्जत्वचो भूर्जपत्रवल्कलानि । `भूर्जपपत्रो भुजो भूर्जो मृदुत्वक्चार्मिका अपि` इति यादवः । विद्याधरसुन्दरीणाम् । लिख्यन्ते येषु ते लेखाः पत्रिकाः । अनङ्गस्य लेखास्तेषां क्रियया । कामव्यञ्जकलेखकरणेनेत्यर्थः । उपयोगमुपकारं व्रजन्ति । दिव्याङ्गनाविहारयोग्योऽयं शैल इति भावः अन्वयः: यत्र धातुरसेन न्यस्ताऽक्षराः कुञ्जरबिन्दुशोणाः भूर्जत्वचः विद्याधरसुन्दरीणाम् अनङ्गलेखक्रियया उपयोगं व्रजन्ति ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
न्यस्ताक्षरा
Lemma: न्यस्
POS: 2. P.
न्यस्ताक्षरा
Lemma: अक्षर
POS: n
धातुरसेन
Lemma: धातु
POS: mn
धातुरसेन
Lemma: रस
POS: mn
यत्र
Lemma: यत्र
POS: ind
भूर्जत्वचः
Lemma: भूर्ज
POS: m
भूर्जत्वचः
Lemma: त्वच्
POS: f
कुञ्जरबिन्दुशोणाः
Lemma: कुञ्जर
POS: m
कुञ्जरबिन्दुशोणाः
Lemma: बिन्दु
POS: mn
कुञ्जरबिन्दुशोणाः
Lemma: शोण
POS: adj
व्रजन्ति
Lemma: व्रज्
POS: 1. Ā. • Verb: व्रजन्ति
विद्याधरसुन्दरीणाम्
Lemma: विद्याधर
POS: m
विद्याधरसुन्दरीणाम्
Lemma: सुन्दरी
POS: f
अनङ्गलेखक्रिययोपयोगम्
Lemma: अनङ्ग
POS: m
अनङ्गलेखक्रिययोपयोगम्
Lemma: लेख
POS: m
अनङ्गलेखक्रिययोपयोगम्
Lemma: क्रिया
POS: f
अनङ्गलेखक्रिययोपयोगम्
Lemma: उपयोग
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 1.7. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.6) All Verses in Chapter 1 Next Verse (KS 1.8) →