Skip to main content
Search
Full Chapter
KS • Chapter 1: Canto 1

KS 1.8

Canonical Ref: KS 1.8
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
यः पूरयन्कीचकरन्ध्रभागान्दरीमुखोत्थेन समीरणेन । उद्गास्यतामिच्छति किंनराणां तानप्रदायित्वमिवोपगन्तुम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): य इति ॥ यो हिमाद्रिः दरी गुहा सैव मुखं तस्मादुत्थेनोत्‌पन्नेन । `आतश्चोपसर्गे` (पा.3|1|136) इति कप्रत्ययः । समीरणेन वायुना कीचका वेणुविशेषाः । `वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः` इत्यमरः (अ.को.2|4|161) । तेषां रन्ध्रभागाञ्छिद्रप्रदेशान्पूरयन्धमयन् । वांशिकोऽपि वंशारन्ध्राणि मुखमारुतेन पूरयतीति प्रसिध्दिः । उद्गास्यतां देवयोनित्वादुच्चैर्गान्धारग्रामेण गानं करिष्यताम् । उक्तं च नारदेन- `षङ्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः ।` इति किंन्नराणां देवगायकानां तानप्रदायित्वम् । तानो नाम स्वरान्तरप्रवर्तको रागस्थितिप्रवृत्त्यादिहेतुरंशापरनामा वंशवाद्यसाध्यः प्रधानभूतः स्वरविशेषः `तानस्त्वंशस्वरो मतः`इत्यभिनवगुत्पः । `गाता यं यं स्वरे गच्छेत्तं तं वंशेन तानयेत्` इति भरतः । तत्प्रदानशीलत्वं तानप्रदायित्वं वांशिकत्वमुपगन्तुमिच्छतीवेत्युप्रेक्षा । सा च दरीमुखोत्थेनेत्येकदेशविवर्तिरुपकोज्जीविता । मुखसाध्यत्वात्तानप्रदायित्वस्य । यत्रावयवरुपणादवयविरुपणं गम्यते तदेकदेशविवर्ति रुपकम् । गम्यते चात्रावयविनः पुंसो रुपणं यच्छब्दनिर्दिष्टे हिमाद्रावित्यलं बहुना अन्वयः: यो दरीमुखोत्थेन समीरणेन कीचकरन्ध्रभागान् पूरयन् उद्गास्यतां किन्नराणां तानप्रदायित्वम् उपगन्तुम् इच्छति इव ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
यः
Lemma: यद्
POS: pron
पूरयन्
Lemma: पूरय्
POS: 10. Ā.
कीचकरन्ध्रभागान्
Lemma: कीचक
POS: m
कीचकरन्ध्रभागान्
Lemma: रन्ध्र
POS: mn
कीचकरन्ध्रभागान्
Lemma: भाग
POS: m
दरीमुखोत्थेन
Lemma: दरीमुख
POS: m
दरीमुखोत्थेन
Lemma: उत्थ
POS: adj
समीरणेन
Lemma: समीरण
POS: m
उद्गास्यताम्
Lemma: उद्गा
POS: 4. Ā.
इच्छति
Lemma: इष्
POS: 1. P. • Verb: इच्छति
किंनराणां
Lemma: किंनर
POS: mn
तानप्रदायित्वम्
Lemma: तान
POS: m
तानप्रदायित्वम्
Lemma: प्रदायिन्
POS: adj
तानप्रदायित्वम्
Lemma: त्व
POS: n
इवोपगन्तुम्
Lemma: इव
POS: ind
इवोपगन्तुम्
Lemma: उपगम्
POS: 6. P.
Canonical CTS URN Reference
Kumārasambhavam, KS 1.8. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.7) All Verses in Chapter 1 Next Verse (KS 1.9) →