Skip to main content
Search
Full Chapter
KS • Chapter 1: Canto 1

KS 1.6

Canonical Ref: KS 1.6
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
पदं तुषारस्रुतिधौतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम् । विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): पदमिति ॥ यस्मिन्नद्रौ किरातास्तुषारस्त्रुतिभिर्हिमनिस्यन्दैर्धौतं क्षालितं रक्तं शोणितं यस्य तत्तथोक्तम् अतो दुर्ग्रहमिति भावः । हता द्विपा गजा यैस्तेषां हतद्विपानां केसरिणां सिंहानां पदं पादप्रक्षेपस्थानमदृष्ट्वापि नखरन्ध्रैर्नखद्रोणिभिर्मुक्तैर्मुक्ताफलैर्मार्गं विदन्ति जानान्ति । अत्र व्याधाः सिंहघातिनो गजेन्द्राश्च मुक्ताकरा इति भावः । `करीन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि`॥ १.६ ॥ अन्वयः: यस्मिन् किराताः तुषारस्त्रुतिधौतरक्तं हतद्विपानां केसरिणां पदम् अदृष्ट्वा अपि नखरन्ध्रमुक्तैः मुक्ताफलैः मार्गं विदन्ति ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
पदं
Lemma: पद
POS: mn
तुषारस्रुतिधौतरक्तं
Lemma: तुषार
POS: m
तुषारस्रुतिधौतरक्तं
Lemma: स्रुति
POS: f
तुषारस्रुतिधौतरक्तं
Lemma: धाव्
POS: 1. Ā.
तुषारस्रुतिधौतरक्तं
Lemma: रञ्ज्
POS: 6. Ā.
यस्मिन्न्
Lemma: यद्
POS: pron
अदृष्ट्वापि
Lemma: अदृष्ट्वा
POS: ind
अदृष्ट्वापि
Lemma: अपि
POS: ind
हतद्विपानाम्
Lemma: हन्
POS: 6. P.
हतद्विपानाम्
Lemma: द्विप
POS: m
विदन्ति
Lemma: विद्
POS: 6. Ā. • Verb: विदन्ति
मार्गं
Lemma: मार्ग
POS: m
नखरन्ध्रमुक्तैर्
Lemma: नख
POS: mn
नखरन्ध्रमुक्तैर्
Lemma: रन्ध्र
POS: mn
नखरन्ध्रमुक्तैर्
Lemma: मुच्
POS: 6. Ā.
मुक्ताफलैः
Lemma: मुक्ताफल
POS: n
केसरिणां
Lemma: केसरिन्
POS: m
किराताः
Lemma: किरात
POS: mn
Canonical CTS URN Reference
Kumārasambhavam, KS 1.6. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.5) All Verses in Chapter 1 Next Verse (KS 1.7) →