Skip to main content
Search
Full Chapter
KS • Chapter 1: Canto 1

KS 1.5

Canonical Ref: KS 1.5
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
आमेखलं संचरतां घनानां च्छायामधःसानुगतां निषेव्य । उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): आमेखलमिति ॥ सिद्धा अणिमादिसिद्धा देवयोनिविशेषाश्च । `पिशाचो गुह्यकः सिध्दो भूतोऽमी देवयोनयः` इत्यमरः (अ.को.1|1|11) । आमेखलाभ्य आमेखलं नितम्बपर्यन्तम् । `मेखला खण्डबन्धे स्यात्काञ्चीशैलनितम्बयोः` इति विश्वः । `आङ्मर्यादाभिविध्योः` इत्यव्ययीभावः । संचरतां घनानां मेधानामधः सानूनि मेधमण्डलादधस्तटानि गतां प्रात्पाम् । `द्वितीया श्रितातोतपतितगतात्यस्तप्राप्तापन्नैः` इति समासः । छायामनातपम् । `छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः` इत्यमरः (अ.को.3|3|166) । निषेव्यवृष्टिभिरुद्वेजिताः = क्लेशिताः सन्तः । `उद्वेगस्तिमिते क्लेशे भये मन्थरगामिनि` इति शर्ब्दाणवः । यस्य हिमाद्रेरातपवन्ति सातपानि श्रृङ्गाण्याश्रयन्ते । आश्रित्य स्थिता इत्यर्थः । अतिमेघमण्डलमस्यौन्नत्यमिति भावः अन्वयः: सिध्दा आमेखलं सञ्चरतां घनानाम् अधः सानुगतां छायां निषेव्य वृष्टिभिः उद्वेजिताः (सन्तः)यस्य आतपवन्ति श्रृङ्गाणि आश्रयन्ते ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
आमेखलं
Lemma: आमेखलम्
POS: ind
संचरतां
Lemma: संचर्
POS: 1. Ā.
घनानां
Lemma: घन
POS: mn
छायाम्
Lemma: छाया
POS: f
अधःसानुगतां
Lemma: अधस्
POS: ind
अधःसानुगतां
Lemma: स
POS: ind
अधःसानुगतां
Lemma: अनुगम्
POS: 1. Ā.
निषेव्य
Lemma: निषेव्
POS: 1. Ā.
उद्वेजिता
Lemma: उद्वेजय्
POS: 10. Ā.
वृष्टिभिर्
Lemma: वृष्टि
POS: f
आश्रयन्ते
Lemma: आश्रि
POS: 1. Ā. • Verb: आश्रयन्ते
शृङ्गाणि
Lemma: शृङ्ग
POS: n
यस्यातपवन्ति
Lemma: यद्
POS: pron
यस्यातपवन्ति
Lemma: आतपवत्
POS: adj
सिद्धाः
Lemma: सिद्ध
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 1.5. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.4) All Verses in Chapter 1 Next Verse (KS 1.6) →