Skip to main content
Search
Full Chapter
KS • Chapter 1: Canto 1

KS 1.4

Canonical Ref: KS 1.4
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति । बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): यश्चेति । किंचेति चकारार्थः । यो हिमाद्रिरप्सरसां विभ्रममण्डनानि विलासालंकरणानि । अथवा `विभ्रमो विपरीतन्यासः । विभ्रमस्त्वरयाकाले भूषास्थानविपर्यये` इति दशरुपकात् । तेन मण्डनानि तेषां संपादयित्रीम् । एतध्दातुरागदर्शिन्योऽप्सरसः संध्याभ्रमेण प्रसाधनाय त्वरयन्त इति भावः । तथात्वे भ्रान्तिमदलंकारो व्यज्यते । `कर्तृकर्मणोः कृति` (पा.2|3|65) इति कर्मणि षष्ठी । वारीणां वाहका बलाहकाः पृषोदरादित्वात्साधुः । तेषां छेदेषु खण्डेषु विभक्तः संक्रमितो रागो यया ताम् । एतेनाद्रेरभ्रंकषत्वं गम्यते । इदं विशेषणद्वयं संध्यायामपि योज्यम् । धातवः सिन्दूरगैरिकादयोऽस्य सन्तीति धातुमान् । नित्ययोगे मतुप् । तस्य भावो धातुमत्ता ताम् । धातुयोगित्वमिति संबन्धोऽपि वाच्यार्थः । `समासकृत्तध्दितेषु संबन्धाभिधानं भावप्रत्ययेन ` इति वचनात् । लक्षणया नित्यानुषङ्गिकधातुमित्यर्थः । अकालसंध्यामिवानियतकालप्राप्तसन्ध्यामिव शिखरैर्बिभर्ति धत्ते । अत्र संध्याशब्दस्य जातिवाचित्वाज्जात्युत्प्रेक्षा अन्वयः: च यः अप्सरोविभ्रममण्डनानां संपादयित्रीं बलाहकच्छेदविभक्तरागां धातुमत्ताम् अकालसन्ध्याम् इव शिशरैः बिभर्ति ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
यश्
Lemma: यद्
POS: pron
चाप्सरोविभ्रममण्डनानां
Lemma: च
POS: ind
चाप्सरोविभ्रममण्डनानां
Lemma: अप्सरस्
POS: f
चाप्सरोविभ्रममण्डनानां
Lemma: विभ्रम
POS: m
चाप्सरोविभ्रममण्डनानां
Lemma: मण्डन
POS: n
सम्पादयित्रीं
Lemma: सम्पादयितृ
POS: adj
शिखरैर्
Lemma: शिखर
POS: mn
बिभर्ति
Lemma: भृ
POS: 1. Ā. • Verb: बिभर्ति
बलाहकच्छेदविभक्तरागाम्
Lemma: बलाहक
POS: m
बलाहकच्छेदविभक्तरागाम्
Lemma: छेद
POS: m
बलाहकच्छेदविभक्तरागाम्
Lemma: विभज्
POS: 1. Ā.
बलाहकच्छेदविभक्तरागाम्
Lemma: राग
POS: m
अकालसंध्याम्
Lemma: अकाल
POS: m
अकालसंध्याम्
Lemma: संध्या
POS: f
इव
Lemma: इव
POS: ind
धातुमत्ताम्
Lemma: धातुमत्
POS: adj
धातुमत्ताम्
Lemma: ता
POS: f
Canonical CTS URN Reference
Kumārasambhavam, KS 1.4. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.3) All Verses in Chapter 1 Next Verse (KS 1.5) →