Skip to main content
Search
Full Chapter
KS • Chapter 1: Canto 1

KS 1.3

Canonical Ref: KS 1.3
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अनन्तेति ॥ प्रभवत्यस्मादिति प्रभवः कारणम् । अनन्तानामपरिमितानां रत्नानां श्रेष्ठवस्तूनां प्रभवस्य यस्य हिमाद्रेर्हिमम् । कर्तृ । सुभगस्य भावः सौभाग्यम् । `हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ` इत्युभयपदवृध्दिः । तद्विलुम्पतीति सौभाग्यविलोपि सौन्दर्यविघातकं न जातं नाभूत् । तथाहि । एको दोषो गुणसंनिपात इन्दोः किरणेष्वङ्क इव निमज्जति । अन्तर्लीयत इत्यर्थः । नहि स्वल्पो दोषोऽमितगुणाभिभावक एव किंतु कश्चिदिन्दुकलङ्कादिवद्गुणैरभिभूयते । अन्यथा सर्वरम्यवस्तुहानिप्रसङ्गादिति भावः । अत्रोपमानुप्राणितोऽर्थान्तरन्यासालंकारः । तल्लक्षणं तु-`ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ ` इति दण्डी अन्वयः: अनन्तरत्नप्रभवस्य यस्य हिमं सौभाग्यविलोपि न जातम् । हि एको दोषो गुणसन्निपाते इन्दोः किरणेषु अङ्क इव निमज्जति ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
अनन्तरत्नप्रभवस्य
Lemma: अनन्त
POS: adj
अनन्तरत्नप्रभवस्य
Lemma: रत्न
POS: mn
अनन्तरत्नप्रभवस्य
Lemma: प्रभव
POS: m
यस्य
Lemma: यद्
POS: pron
हिमं
Lemma: हिम
POS: n
न
Lemma: न
POS: ind
सौभाग्यविलोपि
Lemma: सौभाग्य
POS: n
सौभाग्यविलोपि
Lemma: विलोपिन्
POS: adj
जातम्
Lemma: जन्
POS: 4. P.
एको
Lemma: एक
POS: pron
हि
Lemma: हि
POS: ind
दोषो
Lemma: दोष
POS: mn
गुणसंनिपाते
Lemma: गुण
POS: mn
गुणसंनिपाते
Lemma: संनिपात
POS: m
निमज्जतीन्दोः
Lemma: निमज्ज्
POS: 1. Ā. • Verb: निमज्जति
निमज्जतीन्दोः
Lemma: इन्दु
POS: m
किरणेष्व्
Lemma: किरण
POS: m
इवाङ्कः
Lemma: इव
POS: ind
इवाङ्कः
Lemma: अङ्क
POS: mn
Canonical CTS URN Reference
Kumārasambhavam, KS 1.3. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.2) All Verses in Chapter 1 Next Verse (KS 1.4) →