Skip to main content
Search
Full Chapter
KS • Chapter 1: Canto 1

KS 1.2

Canonical Ref: KS 1.2
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): यमिति ॥ सर्वे च ते शैलाश्च सर्वशैलाः । `पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन` (पा.2|1|49) इति समासः । यं हिमालयं वत्सं परिकल्प्य विधाय दोहदक्षे दोहनसमर्थे मेरौ दोग्धरि स्थिते सति । `यस्य च भावेन भावलक्षणम्` (पा.2|3|37) इति सप्तमी । पृथूपदिष्टां पृथुना वैन्येनोपदिष्टामीदृक्तया प्रदर्शितां धरित्रीम् । गोरुपधरामिति शेषः ।`गौर्भूत्वा तु वसुन्धरा` इति विष्णुपुराणात् । `अकथितं च` (पा.1|4|51) इति कर्मत्वम् । भास्वन्ति च भास्वत्त्यश्च भास्वन्ति द्युतिमन्ति । ओषधिविशेषणं चैतत् । `नपुंसकमनपुंसकेन-` इत्यादिना नपुंसकैकशेषः । रत्नानि मणीञ्जातिश्रेष्ठवस्तूनि च । `रत्नं श्रेष्ठे मणावपि` इति विश्वः । `जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते` इति यादवः । महौषधीश्च संजीवनीप्रभृतीश्च क्षीरत्वेन परिणता इति शेषः । `ताः क्षीरपरिणामिनीः` इति विष्णुपुराणात् । दुदुहुः । `दुहियाच् -` इत्यादिना द्विकर्मकत्वम् । अत्र प्रयोजकत्वेऽपि शैलानां `पञ्चभिर्हलैः कर्षति ग्रामं ग्रामणीः` इतिवत्तत्समर्थाचरणात्कर्तृत्वेन व्यपदेशः । दुहेः स्वरितेत्त्वेऽप्यकर्त्रभिप्रायविवक्षायां परस्मैपदम् । अत्रार्थे प्रमाणम्- गौर्भूमिरचलाः सर्वे कर्तारोऽत्र पयांसि च । ओषध्यश्चैव भास्वन्ति रत्नानि विविधानि च ॥ वत्सश्च हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥ इति । एतेन वत्सस्य मातुः प्रेमास्पदत्वादस्य सारग्राहित्वं गम्यते । तथा चास्य नगस्य रत्नबिशेषभोक्तृत्वान्नगाधिराजत्वं युक्तमिति भावः । अत्र हिमवद्वर्णनस्य प्रकृतत्वात्तद्गतौषधिरत्नानां द्वयानामपि प्रकृतत्त्वात्तेषां दोहनक्रियारूपसमानधर्मसंबन्धादौपम्यस्य गम्यत्वात्केवलप्राकरणिकविषयस्तुल्ययोगिता नामालंकारः । तदुक्तम् - `प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥ ` न चात्र रूपकपरिणामाद्यलंकारशङ्का कार्या तेषामारोपहेतुत्वात् । हिमहेमाचलादिषु वत्सत्वदोग्धृत्वादीनामागमसिद्धत्वेनानारोप्यमाणत्वादिति अन्वयः: सर्वशैला यं वत्सं परिकल्प्य दोहदक्षे मेरौ दोग्धरि स्थिते (सति)भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां धरित्रीं दुदुहुः ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
यं
Lemma: यद्
POS: pron
सर्वशैलाः
Lemma: सर्व
POS: pron
सर्वशैलाः
Lemma: शैल
POS: mn
परिकल्प्य
Lemma: परिकल्पय्
POS: 10. Ā.
वत्सं
Lemma: वत्स
POS: m
मेरौ
Lemma: मेरु
POS: m
स्थिते
Lemma: स्था
POS: 1. Ā.
दोग्धरि
Lemma: दोग्धृ
POS: adj
दोहदक्षे
Lemma: दोह
POS: m
दोहदक्षे
Lemma: दक्ष
POS: adj
भास्वन्ति
Lemma: भास्वत्
POS: adj
रत्नानि
Lemma: रत्न
POS: mn
महौषधीश्
Lemma: महत्
POS: adj
महौषधीश्
Lemma: औषधी
POS: f
च
Lemma: च
POS: ind
पृथूपदिष्टां
Lemma: पृथु
POS: m
पृथूपदिष्टां
Lemma: उपदिश्
POS: 6. Ā.
दुदुहुर्
Lemma: दुह्
POS: 4. Ā. • Verb: दुदुहुः
धरित्रीम्
Lemma: धरित्री
POS: f
Canonical CTS URN Reference
Kumārasambhavam, KS 1.2. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.1) All Verses in Chapter 1 Next Verse (KS 1.3) →