Skip to main content
Search
Ch. 1 KS 1.17
Full Chapter
KS • Chapter 1: Canto 1

KS 1.17

Canonical Ref: KS 1.17
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च । प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): यज्ञाङ्गेति ॥ यस्य हिमाद्रेर्यज्ञाङ्गानां यज्ञसाधनानां सोमलतादीनां योनिः प्रभवस्तस्य भावस्तत्त्वम् । `यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः` इति विष्णुपुराणात् । धरित्रीधरणक्षमं भूभारधरणयोग्यं सारं बलं च । `सारो बले स्थिरांशे च` इत्यमरः (अ.को.3|3|179) । अवेक्ष्य ज्ञात्वा प्रजापतिः स्वयमेव कल्पितो यज्ञभागो यस्मिंस्तत्तथोक्तम् । `सोमस्य राज्ञः कुरङ्ग इन्दोः श्रृङ्गी समुद्रस्य शिशुमारो हिमवतो हस्ती` इति श्रुतेरिति भावः । शैलानामाधिपत्यमधिपतित्वम् । `पत्यन्तपुरोहितादिभ्यो यक्` (पा.5|1|128) इति यक्प्रत्ययः । अन्वतिष्ठत् । ददाति स्मेत्यर्थः । उक्तं च ब्रह्माण्डपुराणे-`शैलानां हिमवन्तं च नदीनां चैव सागरम् । गन्धर्वाणामधिपतिं चक्रे चित्ररथं विधिः` इति अन्वयः: यस्य यज्ञाऽङ्गयोनित्वं धरित्रीधरणक्षमं सारं च अवेक्ष्य प्रजापतिः स्वयं कल्पितयज्ञभागं शैलाधिपत्यम् अन्वतिष्ठत् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
यज्ञाङ्गयोनित्वम्
Lemma: यज्ञाङ्ग
POS: n
यज्ञाङ्गयोनित्वम्
Lemma: योनि
POS: mf
यज्ञाङ्गयोनित्वम्
Lemma: त्व
POS: n
अवेक्ष्य
Lemma: अवेक्ष्
POS: 1. P.
यस्य
Lemma: यद्
POS: pron
सारं
Lemma: सार
POS: mn
धरित्रीधरणक्षमं
Lemma: धरित्री
POS: f
धरित्रीधरणक्षमं
Lemma: धरण
POS: n
धरित्रीधरणक्षमं
Lemma: क्षम
POS: adj
च
Lemma: च
POS: ind
प्रजापतिः
Lemma: प्रजापति
POS: m
कल्पितयज्ञभागं
Lemma: कल्पय्
POS: 10. Ā.
कल्पितयज्ञभागं
Lemma: यज्ञ
POS: m
कल्पितयज्ञभागं
Lemma: भाग
POS: m
शैलाधिपत्यं
Lemma: शैल
POS: mn
शैलाधिपत्यं
Lemma: आधिपत्य
POS: n
स्वयम्
Lemma: स्वयम्
POS: ind
अन्वतिष्ठत्
Lemma: अनुष्ठा
POS: 1. Ā. • Verb: अन्वतिष्ठत्
Canonical CTS URN Reference
Kumārasambhavam, KS 1.17. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.16) All Verses in Chapter 1 Next Verse (KS 1.18) →