Skip to main content
Search
Ch. 1 KS 1.18
Full Chapter
KS • Chapter 1: Canto 1

KS 1.18

Canonical Ref: KS 1.18
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः । मेनां मुनीनामपि माननीयामात्मानुरूपां विधिनोपयेमे ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स इति ॥ मेरोः सखा मेरुसखः । बन्धुसंपन्न इति भावः । स्थितिज्ञो मर्यादाभिज्ञः । अनेन श्रुतसंपत्तिः सूच्यते । स हिमवान्पितॄणां मानसीं मनःसंकल्पजन्यां मुनीनामपि माननीयाम् । योगिब्रह्मवादिभ्यां पूज्यामित्यर्थः । उक्तं च विष्णुपुराणे-- तेभ्यः शुभास्पदं जज्ञे मेनका हरिणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ॥` इति । आत्मानुरुपां कुलशीलसौन्दर्यादिभिः सदृशीं मेनां मेनकादेवीति नामवतीं कन्यां कुलस्य स्थितये प्रतिष्ठायै विधिना यथाशास्त्रेणोपयेमे परिणीतवान् । `उपाद्यमः स्वकरणे` इत्यात्मनेपदम् । `तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते ॥` इति ब्रह्माण्डपुराणात् अन्वयः: मेरुसखः स्थितिज्ञः स पितॄणां मानसीं कन्यां मुनीनाम् अपि माननीयाम् आत्माऽनुरुपां मेनां कुलस्य स्थितये विधिना उपयेमे ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
स
Lemma: तद्
POS: pron
मानसीं
Lemma: मानस
POS: adj
मेरुसखः
Lemma: मेरु
POS: m
मेरुसखः
Lemma: सख
POS: m
पितॄणां
Lemma: पितृ
POS: m
कन्यां
Lemma: कन्या
POS: f
कुलस्य
Lemma: कुल
POS: n
स्थितये
Lemma: स्थिति
POS: f
स्थितिज्ञः
Lemma: स्थिति
POS: f
स्थितिज्ञः
Lemma: ज्ञ
POS: adj
मेनां
Lemma: मेना
POS: f
मुनीनाम्
Lemma: मुनि
POS: m
अपि
Lemma: अपि
POS: ind
माननीयाम्
Lemma: मानय्
POS: 10. Ā.
आत्मानुरूपां
Lemma: आत्मन्
POS: m
आत्मानुरूपां
Lemma: अनुरूप
POS: adj
विधिनोपयेमे
Lemma: विधि
POS: m
विधिनोपयेमे
Lemma: उपयम्
POS: 6. P. • Verb: उपयेमे
Canonical CTS URN Reference
Kumārasambhavam, KS 1.18. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.17) All Verses in Chapter 1 Next Verse (KS 1.19) →