Skip to main content
Search
Ch. 1 KS 1.16
Full Chapter
KS • Chapter 1: Canto 1

KS 1.16

Canonical Ref: KS 1.16
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान्परिवर्तमानः । पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): सप्तर्षोति ॥ सप्त च ते ऋषयश्च सप्तर्षयः । `दिक्संख्ये संज्ञायाम्` (पा.2|1|50) इति समासः । तेषां हस्तैरवचितेभ्यो लूनेभ्योऽवशेषाण्यवशिष्टानि । `शेषाऽप्रधानसंतापे त्रिष्वन्यत्रोपयुज्यते` इति केशवः । कर्मण्यण्प्रत्ययः । अनेन पद्मानां साफल्यं सूचितम् । यस्य हिमाद्रेः रोहन्तीति रुहाणि । `इगुपधज्ञाप्रीकिरः कः` (पा.3|1|135) इति कप्रत्ययः । अग्र उपरि यानि सरांसि तेषु रुहाणि पद्मान्यधः परिवर्तमानो भ्रमन्विवस्वान्सूर्यं ऊर्ध्वमुखैर्मंयूखैः प्रबोधयति विकासयति। न कदाचिदधोमुखैः । अतिमार्तण्डमण्डलत्वादग्रभूमेरिति भावः । सप्तर्षिमण्डलं ध्रुवादप्यूर्ध्वमिति ज्यौतिषिकाः । अतस्तेषामग्रसरोरुहभागित्वं युक्तम् अन्वयः: सत्पर्षिहस्ताऽवचिताऽवशेषाणि यस्य अग्रसरोरुहाणि पद्मानि अधः परिवर्तमानः विवस्वान् ऊर्ध्वमुखैः मयूखैः प्रबोधयति ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
सप्तर्षिहस्तावचितावशेषाण्य्
Lemma: सप्तर्षि
POS: m
सप्तर्षिहस्तावचितावशेषाण्य्
Lemma: हस्त
POS: mn
सप्तर्षिहस्तावचितावशेषाण्य्
Lemma: अवचि
POS: 5. Ā.
सप्तर्षिहस्तावचितावशेषाण्य्
Lemma: अवशेष
POS: mn
अधो
Lemma: अधस्
POS: ind
विवस्वान्
Lemma: विवस्वन्त्
POS: m
परिवर्तमानः
Lemma: परिवृत्
POS: 1. Ā.
पद्मानि
Lemma: पद्म
POS: mn
यस्याग्रसरोरुहाणि
Lemma: यद्
POS: pron
यस्याग्रसरोरुहाणि
Lemma: अग्र
POS: n
यस्याग्रसरोरुहाणि
Lemma: सरोरुह
POS: n
प्रबोधयत्य्
Lemma: प्रबोधय्
POS: 10. Ā. • Verb: प्रबोधयति
ऊर्ध्वमुखैर्
Lemma: ऊर्ध्व
POS: adj
ऊर्ध्वमुखैर्
Lemma: मुख
POS: n
मयूखैः
Lemma: मयूख
POS: mn
Canonical CTS URN Reference
Kumārasambhavam, KS 1.16. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.15) All Verses in Chapter 1 Next Verse (KS 1.17) →