Skip to main content
Search
Ch. 1 KS 1.15
Full Chapter
KS • Chapter 1: Canto 1

KS 1.15

Canonical Ref: KS 1.15
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः । यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): भागीरथीति । भागीरथीनिर्झरसीकराणां गङ्गाप्रवाहपाथ:- कणानाम् । कर्मणि षष्ठी । वोढा प्रापकः । वहेस्तृच् । मुहुः पुनः पुनः सद्यो वा । `पौनः पुन्ये भृशार्थे च सद्यो वा स्यान्मुहुः पदम्` इति वैजयन्ती । कम्पिता देवदारवो येन स तथोक्तः । भिन्नानि विश्लेषितानि शिखण्डिनां बर्हाणि गतिलाघवार्थं किरातकटिबद्धानि येन स तथोक्तः । क्रमाद्विशेषणत्रयेण शैत्यसौरभ्यमान्द्यान्युक्तानि । यस्य हिमाद्रेर्वायुः । अन्विष्टमृगैर्मार्गितमृगैः । श्रान्तैरिति भावः । `अन्विष्टं मार्गितम्` इत्यमरः (अ.को.3|1|104) । किरातैरासेव्यते अन्वयः: भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः भिन्नशिखण्डिबर्हः यद्वायुः अन्विष्टमृगैः किरातैः आसेव्यते ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
भागीरथीनिर्झरसीकराणां
Lemma: भागीरथी
POS: f
भागीरथीनिर्झरसीकराणां
Lemma: निर्झर
POS: mn
भागीरथीनिर्झरसीकराणां
Lemma: सीकर
POS: m
वोढा
Lemma: वोढृ
POS: adj
मुहुः
Lemma: मुहुर्
POS: ind
कम्पितदेवदारुः
Lemma: कम्प्
POS: 1. P.
कम्पितदेवदारुः
Lemma: देवदारु
POS: mn
यद्
Lemma: यत्
POS: ind
वायुर्
Lemma: वायु
POS: m
अन्विष्टमृगैः
Lemma: अन्विष्
POS: 6. Ā.
अन्विष्टमृगैः
Lemma: मृग
POS: m
किरातैर्
Lemma: किरात
POS: mn
आसेव्यते
Lemma: आसेव्
POS: 1. Ā. • Verb: आसेव्यते
भिन्नशिखण्डिबर्हः
Lemma: भिद्
POS: 6. P.
भिन्नशिखण्डिबर्हः
Lemma: शिखण्डिन्
POS: m
भिन्नशिखण्डिबर्हः
Lemma: बर्ह
POS: mn
Canonical CTS URN Reference
Kumārasambhavam, KS 1.15. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.14) All Verses in Chapter 1 Next Verse (KS 1.16) →