Skip to main content
Search
Ch. 1 KS 1.23
Full Chapter
KS • Chapter 1: Canto 1

KS 1.23

Canonical Ref: KS 1.23
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
प्रसन्नदिक्पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि । शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): प्रसन्नेति ॥ प्रसन्ना निर्मला दिशो यस्मिंस्तत्प्रसन्नदिक् । पांसुविविक्ता रजोरहिता वाता यस्मिंस्तत्तथोक्तम् । शङ्खस्य स्वनात्स्वनस्य वानन्तरं पुष्पवृष्टिर्यस्मिंस्तत्तथोक्तं तस्याः पार्वत्या जन्मदिनम् । स्थितिशीलाः स्थावराः शैलवृक्षादयः । `स्थेशभासपिसकसो वरच्` (पा.3|2|175) इति वरच्प्रत्ययः । जङ्गम्यन्ते भृशं गच्छन्तीति जङ्गमा देवतिर्थङ्मनुष्यादयः । स्थावराश्च जङ्गमाश्च तेषां द्वयानामपि शरीरिणां सुखायानन्दाय बभूव अन्वयः: प्रसन्नदिक् पांसुविविक्तवातं शङ्खस्वनाऽनन्तरपुष्पवृष्टि तज्जन्मदिनं स्थवरजङ्गमानां शरीरिणां सुखाय बभूव ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
प्रसन्नदिक्
Lemma: प्रसद्
POS: 1. Ā.
प्रसन्नदिक्
Lemma: दिश्
POS: f
पांसुविविक्तवातं
Lemma: पांसु
POS: m
पांसुविविक्तवातं
Lemma: विविच्
POS: 7. Ā.
पांसुविविक्तवातं
Lemma: वात
POS: m
शङ्खस्वनानन्तरपुष्पवृष्टि
Lemma: शङ्ख
POS: mn
शङ्खस्वनानन्तरपुष्पवृष्टि
Lemma: स्वन
POS: m
शङ्खस्वनानन्तरपुष्पवृष्टि
Lemma: अनन्तर
POS: adj
शङ्खस्वनानन्तरपुष्पवृष्टि
Lemma: पुष्प
POS: n
शङ्खस्वनानन्तरपुष्पवृष्टि
Lemma: वृष्टि
POS: f
शरीरिणां
Lemma: शरीरिन्
POS: m
स्थावरजङ्गमानां
Lemma: स्थावर
POS: adj
स्थावरजङ्गमानां
Lemma: जङ्गम
POS: adj
सुखाय
Lemma: सुख
POS: n
तज्जन्मदिनं
Lemma: तद्
POS: pron
तज्जन्मदिनं
Lemma: जन्मन्
POS: n
तज्जन्मदिनं
Lemma: दिन
POS: mn
बभूव
Lemma: भू
POS: 1. Ā. • Verb: बभूव
Canonical CTS URN Reference
Kumārasambhavam, KS 1.23. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.22) All Verses in Chapter 1 Next Verse (KS 1.24) →