Skip to main content
Search
Ch. 1 KS 1.30
Full Chapter
KS • Chapter 1: Canto 1

KS 1.30

Canonical Ref: KS 1.30
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तमिवात्मभासः । स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तामिति ॥ स्थिरः स्थेयानुपदेशः प्राग्भवीयो यस्यास्तादृशीम् । मेधाविनीमित्यर्थः । तां पार्वतीमुपदेशकाले प्राक्तनजन्मविद्याः । पूर्वजन्माभ्यस्तविद्या इत्यर्थः । शरदि गङ्गां हंसमाला इव नक्तं रात्रौ महौषधिं तृणविशेषमात्मभासः स्वदीप्तय इव प्रपेदिरे । उपमानसामर्थ्यादुपदेशमन्तरेणैवेति गम्यते अन्वयः: स्थिरोपदेशां ताम् उपदेशकाले प्राक्तनजन्मविद्याः शरदि गङ्गां हंसमाला इव नक्तं महौषधिम् आत्ममास इव प्रपेदिरे ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तां
Lemma: तद्
POS: pron
हंसमालाः
Lemma: हंस
POS: m
हंसमालाः
Lemma: माला
POS: f
शरदीव
Lemma: शरद्
POS: f
शरदीव
Lemma: इव
POS: ind
गङ्गां
Lemma: गङ्गा
POS: f
महौषधिं
Lemma: महौषधी
POS: f
नक्तम्
Lemma: नक्त
POS: n
इवात्मभासः
Lemma: इव
POS: ind
इवात्मभासः
Lemma: आत्मन्
POS: m
इवात्मभासः
Lemma: भास्
POS: fn
स्थिरोपदेशाम्
Lemma: स्थिर
POS: adj
स्थिरोपदेशाम्
Lemma: उपदेश
POS: m
उपदेशकाले
Lemma: उपदेश
POS: m
उपदेशकाले
Lemma: काल
POS: m
प्रपेदिरे
Lemma: प्रपद्
POS: 4. P. • Verb: प्रपेदिरे
प्राक्तनजन्मविद्याः
Lemma: प्राक्तन
POS: adj
प्राक्तनजन्मविद्याः
Lemma: जन्मन्
POS: n
प्राक्तनजन्मविद्याः
Lemma: विद्या
POS: f
Canonical CTS URN Reference
Kumārasambhavam, KS 1.30. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.29) All Verses in Chapter 1 Next Verse (KS 1.31) →