Skip to main content
Search
Ch. 1 KS 1.10
Full Chapter
KS • Chapter 1: Canto 1

KS 1.10

Canonical Ref: KS 1.10
Metrical Form: उपेन्द्रवज्रा
Sanskrit (Devanāgarī)
वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): वनेचराणामिति ॥ यत्र हिमाद्रौ रजन्यां दर्यः कन्दरा एव गृहास्तेषामुत्सङ्गेष्वभ्यन्तरेषु निषक्ताः संक्रान्ता भासो यासां ता ओषधयस्तृणज्योतींषि । `अग्नावोषधीषु च तेजो निधाय रविरस्तं याति` इत्यागमः । वनितानां सखायो वनितासखाः । `राजाहःसखिभ्यष्टच्` । तेषाम् । रममाणानामित्यर्थः । वने चरन्तीति वनेचराः किराताः । `चरेष्टः` (पा.3|2|16) इति टप्रत्ययः । `तत्पुरुषे कृति बहुलम्` (पा.6|3|14) इत्यलुक् । तेषां वनेचराणाम् । अतैलपूरः । अनपेक्षिततैलसेका इत्यर्थः । सुरतकर्मणि प्रदीपा भवन्ति । अत्रौषधीष्वारोप्यमाणस्य प्रदीपत्वस्य प्रकृतोपयोगित्वात्परिणामालंकारः । तदुक्तम्- `आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः` इति । तथा प्रदीपकारणतैलपूरणनिषेधादकारणकार्येत्पत्तिर्लक्षणा विभावना चेत्युभयोः संसृष्टिः अन्वयः: यत्र रजन्यां दरीगृहोत्सङ्गनिषक्तभास ओषधयः वनितासखानां वनेचराणाम् अतैलपूराः सुरतप्रदीपा भवन्ति ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
वनेचराणां
Lemma: वनेचर
POS: adj
वनितासखानां
Lemma: वनिता
POS: f
वनितासखानां
Lemma: सख
POS: m
दरीगृहोत्सङ्गनिषक्तभासः
Lemma: दरी
POS: f
दरीगृहोत्सङ्गनिषक्तभासः
Lemma: गृह
POS: mn
दरीगृहोत्सङ्गनिषक्तभासः
Lemma: उत्सङ्ग
POS: m
दरीगृहोत्सङ्गनिषक्तभासः
Lemma: निषञ्ज्
POS: 1. P.
दरीगृहोत्सङ्गनिषक्तभासः
Lemma: भास्
POS: fn
भवन्ति
Lemma: भू
POS: 1. Ā. • Verb: भवन्ति
यत्रौषधयो
Lemma: यत्र
POS: ind
यत्रौषधयो
Lemma: औषधि
POS: f
रजन्याम्
Lemma: रजनी
POS: f
अतैलपूराः
Lemma: अतैल
POS: adj
अतैलपूराः
Lemma: पूर
POS: m
सुरतप्रदीपाः
Lemma: सुरत
POS: n
सुरतप्रदीपाः
Lemma: प्रदीप
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 1.10. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.9) All Verses in Chapter 1 Next Verse (KS 1.11) →