Skip to main content
Search
Ch. 1 KS 1.20
Full Chapter
KS • Chapter 1: Canto 1

KS 1.20

Canonical Ref: KS 1.20
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् । क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानाम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): असूतेति । सा मेना नागवधूपभोग्यम् । नगकन्यापरिणेतारमित्यर्थः । अम्भोनिधिना बद्धसख्यं समुद्रकृतमैत्रीकम् । सख्यमूलं सूचयति- पक्षच्छिदि पक्षच्छेत्तरि । `सत्सूद्विषे-` त्यादिना क्विप्प्रत्ययः । वृत्रशत्रौ क्रृद्धे कुपिते सत्यपि कुलिशक्षतानां वज्रप्रहाराणाम्। संबन्धसामान्ये षष्ठी । जानातीति ज्ञः । `इगुपधज्ञा-` इति कप्रत्ययः । वेदनानां ज्ञः । अथवा वेदनां जानातीति वेदनाज्ञः । `आतोऽनुपसर्गे कः` (पा.3|2|3) इति कप्रत्ययः । `उपपदमतिङ्` (पा.2|2|19) इति समासः । स न भवतीत्यवेदनाज्ञस्तम् । कुलिशक्षतवेदनानभिज्ञमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । पक्षच्छेदोद्यतशक्रात्त्राणाय शरणागमनमनयोः सख्यमूलमिति भावः । मैनाकं पुत्रमसूत । सर्वपर्वंतपक्षच्छेदेऽप्ययमच्छिन्नपक्ष एवेति मैनाकस्योत्कर्षः । तादृक्पुत्रवत्त्वं हिमाद्रेरिति सार्थकं मैनाकस्य वर्णनम् । `पिता न ज्ञायते यस्या भ्राता यदि न विद्यते । नोपयच्छेत्तु तां कन्यां धर्मलोपभयात्सुधीः ।` इत्यभ्रातृकन्यापरिणयनिषेधात्प्रकृते पार्वती भ्रातृमत्येवेति सूचनार्थं मैनाकपर्वतमिति तात्पर्यार्थः अन्वयः: सा नागवधूपभोग्यम् अम्भोनिधिबद्धसख्यं पक्षच्छिदि वृत्रशत्रौ क्रुद्धे अपि कुलिशक्षतानाम् अवेदनाज्ञं मैनाकम् असूत ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
असूत
Lemma: सू
POS: 1. Ā. • Verb: असूत
सा
Lemma: तद्
POS: pron
नागवधूपभोग्यं
Lemma: नाग
POS: m
नागवधूपभोग्यं
Lemma: वधू
POS: f
नागवधूपभोग्यं
Lemma: उपभुज्
POS: 1. P.
मैनाकम्
Lemma: मैनाक
POS: m
अम्भोनिधिबद्धसख्यम्
Lemma: अम्भोनिधि
POS: m
अम्भोनिधिबद्धसख्यम्
Lemma: बन्ध्
POS: 4. P.
अम्भोनिधिबद्धसख्यम्
Lemma: सख्य
POS: n
क्रुद्धे
Lemma: क्रुध्
POS: 4. Ā.
ऽपि
Lemma: अपि
POS: ind
पक्षच्छिदि
Lemma: पक्षच्छिद्
POS: m
वृत्रशत्राव्
Lemma: वृत्रशत्रु
POS: m
कुलिशक्षतानाम्
Lemma: कुलिश
POS: mn
कुलिशक्षतानाम्
Lemma: क्षत
POS: n
Canonical CTS URN Reference
Kumārasambhavam, KS 1.20. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.19) All Verses in Chapter 1 Next Verse (KS 1.21) →