Skip to main content
Search
KS
Kumārasambhavam • Chapter 03

Canto 3

तृतीयः सर्गः

Canto 3 of Kumārasambhavam.

Total: 76 Verses • Citations: KS 3.1–76 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
KS 3.1 उपजातिः
तस्मिन्मघोनस्त्रिदशान्विहाय सहस्रमक्ष्णां युगपत्पपात । प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति । मघोन इन्द्रस्याक्ष्णां सहस्त्रं त्रिरावृत्ता दशपरिमाणमेषामिति त्रिदशान्देवान् । `संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये` इति बहुव्रीहिः । `बहुव्रीहौ संख्येये-` इति डच्प्रत्ययः । उक्तार्थत्वात्सुचो निवृत्तिः । विहाय त्यक्तवा तस्मिन्कामे युगपत्पपात । सहस्त्रेणाक्षिभिरद्राक्षीदित्त्यादरातिशयोक्तिः । ननु सुचिरपरित्यगेन भगवतो महेन्द्रस्य कथमकाण्डे तस्मिन्नेकस्मिन्पक्षपात इत्याशङ्क्यार्थान्तरं न्यस्यति- प्रायो भूम्ना प्रभूणामाश्रितेषु सेवकेषु विषये गौरवमादरः प्रयोजनापेक्षितया कार्यार्थित्वेन हेतुना चलं चञ्चलम् । फलतन्त्राः प्रभवो न तु गुणतन्त्रा इति भावः अन्वयः: मघोन अक्ष्णां सहस्त्रं त्रिदशान् विहाय तस्मिन् युगपत् पपात । प्रायः प्रभूणाम् आश्रितेषु गौरवं प्रयोजनाऽपेक्षितया चलम् ।
KS 3.2 उपजातिः
स वासवेनासनसंनिकृष्टमितो निषीदेति विसृष्टभूमिः । भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमतैवमेनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति । स कामो वासवेनेन्द्रेणासनस्य सिंहासनस्य संनिकृष्टं संनिहितमासनसंनिकृष्टं यथा तथा । शेषषष्ठ्यायं समासः । कृद्योगलक्षमया तु न । `न लोकाव्ययनिष्ठाखलर्थतृनाम्` (पा.2|3|69) इति षष्ठीनिषेधात् । इतो निषीदेहोपविशेति विसृष्टभूमिर्दत्तावकाशः सन् । भर्तुः स्वामिनः प्रसादमनुग्रहं मूर्ध्नाप्रतिनन्द्य सम्भाव्य मिथो रहसि । `मिथोऽन्योन्यं रहस्यपि` इत्यमरः (अ.को.3|3|271) । एनमिन्द्रमेवं वक्ष्यमाणप्रकारेण वक्तुं प्राक्रमतोपक्रान्तवान् । `प्रोपाभ्यां समर्थाभ्याम्` (पा.1|3|42) इत्यात्मनेपदम् अन्वयः: स वासवेन आसनसन्निकृष्टम् इतो निषीद इति विसृष्टभूमिः (सन्) भर्तुः प्रसादं मूर्ध्ना प्रतिनन्द्य मिथः एनम् एवं वक्तुं प्राक्रमत ।
KS 3.3 उपजातिः
आज्ञापय ज्ञातविशेष पुंसां लोकेषु यत्ते करणीयमस्ति । अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अज्ञापयेति ॥ हे पुंसां ज्ञातविशेष ज्ञातसार । ज्ञातपुंविशेषेत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । आज्ञापय । तदिति शेषः । उत्तरवाक्ये यच्छब्दप्रयोगान्न पूर्ववाक्ये तच्छब्दप्रयोगनिर्बन्धः । किं तदित्याह--लोकेषु ते तव यत्करणीयं कर्तवन्यमस्ति । संस्मरणेन प्रवृत्तमुत्पन्नं ते तवानुग्रहं प्रसादमाज्ञया नियोगेन वर्धय । क्वचित्कर्मणि नियुङ्क्ष्वेत्यर्थः । अन्यथा मे नास्ति परितोष इति भावः । तुमुन्नन्तपाठे णिजर्थे यत्नः कार्यः न च मे किञ्चिदसाध्यमस्तीत्याह- अन्वयः: हे पुंसां ज्ञातविशेष ! आज्ञापय, लोकेषु ते यत् करणीयम् अस्ति, संस्मरणप्रवृत्तं ते अनुग्रहम् आज्ञया संवर्द्धितम् इच्छामि ।
KS 3.4 उपजातिः
केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घैर्जनिता तपोभिः । यावद्भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): केनेति ॥ पदकाङ्क्षिणा स्वाराज्यकामेन केन पुंसा नितान्तदीर्घैरतिप्रभूतैस्तपोभिस्ते तवाभ्यसूयेर्ष्या जनिता । तं ब्रूहीति शेषः । किमर्थम् । यावद्यतः स भवद्वैर्याहितसायकस्य संहितबाणस्यास्य मत्कार्मुकस्य निदेशे वर्तत इति निदेशवर्त्याज्ञावशो भवति । अविलम्बेनैव भविष्यतीत्यर्थः । `वर्तमानसामीप्ये वर्तमानवद्वा` (पा.3|3|131) इति लट् अन्वयः: हे प्रभो ! ते पदकाङ्क्षिणा केन नितान्तदीर्घैः तपोभिः अभ्यसूया जनिता । (तं ब्रूहि) (सः) आहितसायकस्य अस्य मत्कार्मुकस्य निदेशवर्ती भवति ।
KS 3.5 उपजातिः
असंमतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात्प्रपन्नः । बद्धश्चिरं तिष्ठतु सुन्दरीणामारेचितभ्रूचतुरैः कटाक्षैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): असंमत इति ॥ तवासंमतः कः पुनर्भवः पुनरुत्पत्तिः । संसार इति यावत् । तत्र ये क्लेशा जन्मजरामरणादयस्तेभ्यो भयान्मुक्तिमार्गं प्रपन्नस्तं वद । यतः सोऽप्यारेचिताभिरेकैकशो विवर्तिताभिर्भ्रूभिश्चतुरैः सुन्दरीणां कटाक्षैर्बद्धश्चिरं तिष्टतु । आरेचितलक्षणं तु- `स्याद्‌भ्रुवोर्ललिताक्षेपादेकस्या एव रेचितम् । तयोर्मूलसमुत्क्षेपं कौटिल्याद्‌भ्रूकुटिर्विदुः ॥` इति अन्वयः: (हे प्रभो !) तव असम्मतः कः पुनर्भवक्लेशभयात् मुक्तिमार्गं प्रपन्नः ? (यावत् सः) आरेचितभ्रूचतुरैः सुन्दरीणां कटाक्षैः बद्धः (सन्) चिरं तिष्ठतु ।
KS 3.6 उपजातिः
अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते । कस्यार्थधर्मौ वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अध्यापितस्येति ॥ उशनसा शुक्रेण नीतिं नीतिशास्त्रमध्यापितस्यापि अपि शब्दाच्छुक्रशिष्याणामप्रधृष्यत्वं गम्यते । `गतिबुद्धि-` इत्यादिना द्विकर्मकादिण्धातोर्ण्यन्तात्प्रधाने कर्मणि क्तः `अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः` ।इति वचनात् । ते द्विषस्तव शत्रोः कस्यार्थधर्मौ प्रयुक्तः प्रहितो रागो विषयाभिलाष एव प्रणिधिर्बूतो येन सोऽहम् । `प्रार्थने प्रणिधिः चरे` इति यादवः । प्रवृद्ध ओघः सिन्धोर्नद्यास्तटाविव पीडयामि वद अन्वयः: उशनसा नीतिम् अध्यापितस्य अपि ते कस्य द्विषः अर्थधर्मौ प्रयुक्तरागप्रणीधिः (सन्) अहं प्रवृद्धः ओघः सिन्धोः तटौ इव पीडयामि ? वद ।
KS 3.7 इन्द्रवज्रा
कामेकपत्नीव्रतदुःखशीलां लोलं मनश्चारुतया प्रविष्टाम् । नितम्बिनीमिच्छसि मुक्तलज्जां कण्ट्ःए स्वयंग्राहनिषक्तबाहुम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कामिति । एकः पतिर्यस्याः सैकपत्नी पतिव्रता । `नित्यं सपत्न्यादिषु` (पा.4|1|35) इति ङीप् । तस्या व्रतं पातिव्रत्यं तेन दुःखशीलां दुःखस्वभावाम् । दृढव्रतामित्यर्थः । `शीलं स्वभावे सद्‌वृत्ते` इत्यमरः । चारुतया सुन्दरत्वेन हेतुना लोलं मनस्त्वच्चितं प्रविष्टां कां नितम्बिनीं नारीं मुक्तलज्जां सतीं कण्ठे स्वयंग्राहनिषक्तबाहुम् । स्वयं गृह्णातीति स्वयंग्राहा । `विभाषा ग्रहः` (पा.3|1|143) इति णप्रत्ययः । न च जलचर एव ग्राह इति नियमः । जलचरे ग्राह एवेति नियमादिति । स्वयंग्राहा च सा निषक्तबाहुश्च तां तथाभूतामिच्छसि । त्वदर्थे पतिव्रतामपि व्रताद्‌भ्रंशयिष्यामीत्यर्थः ॥ एतच्चेन्द्रस्य पारदारिकत्वादुक्तम् । तथा च श्रुतिः-- `अहल्यायै जारः` इति अन्वयः: एकपत्नीव्रतदुःखशीलां चारुतया लोलं मनः प्रविष्टां कां नितम्बिनीं मुक्तलज्जां (सतीम्) कण्ठे स्वयंग्राहनिषक्तबाहुम् इच्छसि ?
KS 3.8 उपजातिः
कयासि कामिन्सुरतापराधात्पादानतः कोपनयावधूतः । यस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कयेति ॥ हे कामिन्कामुक, सुरतापराधात् । अन्यासङ्गादित्यर्थः । पादानतः प्रणतः सन् । कोपनया कोपनशीलया कया स्त्रियावधूतस्तिरस्कृतोऽसि । तस्याः शरीरं दृढानुतापं गाढपश्चात्तापमत एव प्रवालशय्याशरणं करिष्यामीति अन्वयः: हे कामिन् ! सुरताऽपराधात् पादानतः सन् कोपनया कया अवधूतः असि ? तस्याः शरीरं दृढाऽनुतापं प्रवालशय्याशरणां करिष्यामि ।
KS 3.9 उपजातिः
प्रसीद विश्राम्यतु वीर वज्रं शरैर्मदीयैः कतमः सुरारिः । बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रसीदेति ॥ हे वीर, प्रसीद प्रसन्नो भव । वज्रं कुलिशं विश्राम्यतु । उदास्तामित्यर्थः । मदीयैः शरैर्मोधीकृतबाहुवीर्यो विफलीकृतभुजशक्तिः कतमो दैत्यदानवादिषु यः कश्चन सुरारिः । वा बहूनां जातिपरिप्रश्ने डतमच्` इति डतमच्प्रत्ययः । कोपेन स्फुरिताधराभ्यः स्त्रीभ्योऽपि बिभेतु । किमु वक्तव्यं पुंभ्य इत्यर्थः सकृद्भीतः सर्वतो बिभेतीति भावः । `भीत्रार्थानां भयहेतुः` इत्यपादानत्वात्पञ्चमी अन्वयः: हे वीर ! प्रसीद, वज्रं विश्राम्यतु । मदीयैः शरैः मोधीकृतबाहुः वीर्यः कतमः सुराऽरिः कोपस्फुरिताऽधराभ्यः स्त्रीभ्यः अपि बिभेतु ।
KS 3.10 उपजातिः
तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनोऽन्ये ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तवेति ॥ किं बहुना, तव प्रसादादनुग्रहात्कुसुमायुधोऽप्यतिदुर्बलास्त्रोऽप्यहमेकं मधुं वसन्तमेव सहायं लब्ध्वा पिनाकः पाणौ यस्य स पिनाकपाणिः । `प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ` । हरस्यापि । हरः पिनाकी चेत्यतिदारुण इति भावः । धैर्यच्युतिं धैर्यहानिं कुर्याम् । कर्तु शक्नुयामित्यर्थः । `शकि लिङ् च` (पा.3|3|172) इति शक्यार्थे लिङ् । अन्ये धन्विनो धनुर्भृते मम के । न केऽपीत्यर्थः । किंशब्दः कुत्सायाम् । `कुत्साप्रश्नवितर्केषु क्षेपे किंशब्द इष्यते` इति शाश्वतः अन्वयः: तव प्रसादात् कुसुमायुधः अपि (अहम्) एकं मधुम् एव सहायं लब्ध्वा पिनाकपाणेः हरस्य अपि धैर्यच्युतिं कुर्याम्, अन्ये धन्विनः मम के ।
KS 3.11 उपजातिः
अथोरुदेशादवतार्य पादमाक्रान्तिसंभावितपादपीठम् । संकल्पिथार्थे विवृतात्मशक्तिमाखण्डलः काममिदं बभाषे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति ॥ अथ स्मरवाक्यश्रवणानन्तरमाखण्डलः सहस्त्राक्ष ऊरुदेशात्पादमाक्रमणेन संभावितं पादपीठं यस्मिंस्तद्यथा तथावतार्थं संकल्पितार्थे हरचित्ताकर्षणरूपे विषये विवृतात्मशक्तिम् । `कुर्यां हरस्यापि-` (३/१०) इत्यादिना प्रकटीकृतस्वसामर्थ्यं कामं स्मरमिदं वक्ष्यमाणं बभाषे अन्वयः: अथ आखण्डलः ऊरुदेशात् पादम् आक्रान्तिसंभावितपादपीठम् अवतार्य सङ्कल्पिताऽर्थे विवृतात्मशक्तिं कामम् इदं बभाषे ।
KS 3.12 इन्द्रवज्रा
सर्वं सखे त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवांश्च । वज्रं तपोवीर्यमहत्सु कुण्ट्ःअं त्वं सर्वतोगामि च साधकं च ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सर्वमिति ॥ हे सखे ! सखे इति संबोधनं गौरवार्थम् । सर्वमेतत्त्वय्युपपन्नं सिद्धम् । मम कुलिशं वज्रं भवांश्चोभे अस्त्रे । तत्र वज्रं तपोवीर्येण तपोबलेन महत्सु प्रबलेषु कुण्ठं प्रतिबद्धप्रसरम् । त्वमस्त्रं पर्वतोगामि च साधकं च । तापसेष्वप्यकुण्ठमित्यर्थः ॥ ३.१२ । अन्वयः: सखे ! सर्वम् एतत् त्वयि उपपन्नम्, मम कुलिशं भवांश्च उभे अस्त्रे । वज्रं तपोवीर्यमहत्सु कुण्ठम् । त्वं सर्वतोगामि साधकं च ।
KS 3.13 उपजातिः
अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये । व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अवैमीति ॥ हे सखे, ते सारं बलमवैमि वेद्मि । अतः खल्वत एवात्मसमं मत्तुल्यं त्वां गुरुणि महति कार्ये `तस्मै हिमाद्रेः-` (३/१६) इति वक्ष्यमाणे नियोक्ष्ये । `स्वराद्यन्तोपसर्गादिति वक्तव्यम्` इति वार्तिकादात्मनेपदनियमः । तथाहि । सारपरीक्षापूर्वक एव सर्वत्र नियोग इत्याह- कृष्णेन विष्णुना । धरतीति धरः । पचाद्यच् । भुवो धरो भूधरस्तस्य भावस्तत्तां भूधरताम् । भूधरणशक्तिमित्यर्थः । अवेक्ष्य ज्ञात्वा शेषः सर्पराजो देहोद्वहनाय स्वदेहमुद्वोढुम् । `क्रियार्थोपपदस्य-` इत्यादिना चतुर्थी । व्यादिश्यते नियुज्यते । शेषशायी हि भगवान् अन्वयः: (हे सखे !) ते सारम् अवैमि । अतः खलु आत्मसमं त्वां गुरुणि कार्ये नियोक्ष्ये । कृष्णेन भूधरताम् अवेक्ष्य शेषो देहोद्वहनाय व्यादिश्यते ।
KS 3.14 उपजातिः
आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् । निबोध यज्ञांशभुजामिदानीमुच्चैर्द्विषामीप्सितमेतदेव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आशंसतेति ॥ वृषाङ्के हरे बाणगतिं बाणप्रसरमाशंसता कथयता । `कुर्यां हरस्यापि पिनाकपाणेः` (३/१०) इत्यादिनेति शेषः । त्वया नोऽस्माकं कार्यं प्रतिपन्नकल्पमङ्गीकृतप्रायम् । `ईषदसमात्पौ-` इत्यादिना कल्पप्रत्ययः । कथमेतदित्याह- इदानीमुच्चैरुन्नता द्विषो येषां तेषामुच्चैर्द्विषां यज्ञांशभुजां देवानाम् । एतेन द्विषल्लुप्तयज्ञभागत्वं सूच्यते । ईप्सितमाप्तुमिष्टमेतदेव हरे बाणप्रयोगरुपमेव निबोध । हरायत्तं बुद्ध्यस्वेत्यर्थः । `बुध बोधने` इति धातोर्लोट् । अत्र `आशंसता प्रार्थयमानेन` इति नाथव्याख्यानमनाथव्याख्यानम् । आङ्पूर्वयोः शास्तिशंसत्योरिच्छार्थत्वे आत्मनेपदनियमात् । याच्‌ञार्थत्वस्याप्रामाणिकत्वात् । `कुर्यां हरस्यापि-` (३/१०) इत्यत्रानयोरभावादयोगाच्चेति अन्वयः: हे मित्र ! वृषाङ्के बाणगतिम् आशंसता त्वया नः कार्यं प्रतिपन्नकल्पम् । इदानीम् उच्चैर्द्‌विषां यज्ञांऽशभुजाम् ईप्सितम् एतत् एव निबोध
KS 3.15 उपजातिः
अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यमुशन्ति देवाः । स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अमी इति ॥ हि यस्मादमी देवा जयाय शत्रुजयार्थं भवस्य हरस्य वीर्यप्रभवं तेजः संभूतं सेनापतिमुशन्ति कामयन्ते । `वश कान्तौ` इति धातोर्लट् । ब्रह्मणां सद्योजातादिमन्त्राणामङ्गानां हृदयादिमन्त्राणां भूः स्थानं ब्रह्माङ्गभूः । कृतमन्त्रन्यास इत्यर्थः । ब्रह्मणि निजतत्त्वे `वेदस्तत्वं तपो ब्रह्म ब्रह्मा` इत्युभयत्राप्यमरः । योजितात्मा नियमितचित्तः । मन्त्रन्यासपूर्वंकं ब्रह्म ध्यायन्नित्यर्थः । स भवश्च त्वदेकेषोस्तवैकबाणस्य निपातेन साध्यः । अनन्यसाध्योऽयमस्मिन्नवसर इति भावः अन्वयः: हि अमी देवाः जयाय भवस्य वीर्यप्रभवं सेनान्यम् उशन्ति । ब्रह्माऽङ्गभूः ब्रह्मणि योजितात्मा स च त्वदेकेषुनियातसाध्यः ।
KS 3.16 उपजातिः
तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व । योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्मा इति ॥ यतात्मने नियतचित्ताय तस्मै भवाय । `रुच्यर्थानां प्रीयमाणः` (पा.1|4|33) इति संप्रदानत्वाच्चतुर्थी । प्रयतां हिमाद्रेस्तनूजां पार्वतीं रोचयितुं यतस्व । भवितव्यं चात्र पार्वत्यैवेत्याह-योषित्सु स्त्रीषु मध्ये । `यतश्च निर्धारणम्` (पा.2|3|41) इति सत्पमी । क्षमा शक्ता तस्य हरस्य वीर्यं रेतस्तस्य निषेकः क्षरणं तस्य भूमिः क्षेत्रं सा पार्वत्येवेत्यात्मभुवा ब्रह्मणोपदिष्टम् । `उभे एव क्षमे वोढुम्` (२.६०) इत्यादिनोक्तमित्यर्थः अन्वयः: यतात्मने तस्मै प्रयतां हिमाऽद्रेः तनूजां रोचयितुं यतस्व । योषित्सु क्षमा तद्वीर्यनिषेकभूमिः सा एव इति आत्मभुवा उपदिष्टम् ।
KS 3.17 उपजातिः
गुरोर्नियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम् । अन्वास्त इत्यप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गुरोरिति ॥ नगेन्द्रकन्या पार्वती च गुरोः पितुर्नियोगाच्छासनादधित्यकायां हिमाद्रेरुर्ध्वभूमौ । `भूमिरुर्ध्वमधित्यका` इत्यमरः । `उपाधिभ्यां त्यकन्नासन्नारुढयोः` इति त्यकन्प्रत्ययः । तपस्यन्तं तपश्चरन्तम् `कर्मणो रोमन्थतपोभ्यां वर्तिचरोः` (पा.3|1|15) इति क्यङप्रत्ययः । ततः शतृप्रत्ययः । स्थाणुं रुद्रमध्वास्ते । उपास्ते इत्यर्थः । इतीदं मयाप्सरसां मुखेभ्यः श्रुतम् । न चैतदैतिह्यमात्रमित्याह- स वर्गः सोऽप्सरसां गणो मत्प्रणिधिर्मम गूढचरः । `प्रणिधिः प्रार्थने चर` इति यादवः अन्वयः: नगेन्द्रकन्या च गुरोः नियोगात् अधित्यकायां तपस्यन्तं स्थाणुम् अन्वास्ते इति मया अप्सरसां मुखेभ्यः श्रुतं, स वर्गः मत्प्रणीधिः ।
KS 3.18 उपजातिः
तद्गच्छ सिद्ध्यै कुरु देवकार्यमर्थोऽयमर्थान्तरभाव्य एव । अपेक्षते प्रत्ययमुत्तमं त्वां बीजाङ्कुरः प्रागुदयादिवाम्भः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति ॥ तत्तस्मात्सिद्ध्यै कार्यसिद्ध्यर्थं गच्छ । देवकार्यं कुरु । आशिषि लोट् । अयमर्थः प्रयोजनमर्थान्तरभाव्यः कारणान्तरसाध्य एव । तच्च कारणान्तरं पार्वतीसंनिधानमिति भावः । `अर्थः प्रकारे विषये वित्तकारणवस्तुषु । अभिधेये च शब्दानां वृत्तौ चापि प्रयोजने ।` इति विश्वः । तथापि बीजसाध्योऽङ्कुरो बीजाङ्कुर उदयादुत्पतेः प्रागम्भ इव त्वामुत्तमं प्रत्ययं चरमं कारणमपेक्षते । `प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु` इत्यमरः (अ.को.3|3|156) । तस्मादस्मिन्नर्थे तव चरमसहकारित्वादनन्यसाध्योऽयमर्थ इति भावः अन्वयः: तत् सिद्ध्यै गच्छ । देवकार्यं कुरु । अयम् अर्थः अर्थान्तरभाव्य एव । बीजाऽङ्कुरः उदयात् प्राक् अम्भ इव त्वाम् उत्तमं प्रत्ययम् अपेक्षते ।
KS 3.19 उपजातिः
तस्मिन्सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् । अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति ॥ सुराणां विजयाभ्युपाये जयस्योपायभूते तस्मिन्हरेऽस्त्रप्रसरस्तवैव नाम । नामेति संभावनायाम् । अन्येषां तु संभावनापि नास्तीति भावः । अतस्त्वं कृती कृतार्थः । तथाहि । अप्रसिद्धमप्यनन्यसाधारणमेव कर्म पुंसां यशसे हि । इदं तु प्रसिद्धमसाधारणं चेत्यतियशस्करमिति भावः अन्वयः: सुराणां विजयाभ्युपाये तस्मिन् अस्त्रगतिः तव एव नाम । अतः त्वं कृती । हि अप्रसिद्धम् अपि अनन्यसाधारणम् एव कर्म पुंसां यशसे भवति ।
KS 3.20 उपजातिः
सुराः समभ्यर्थयितार एते कार्यं त्रयाणामपि विष्टपानाम् । चापेन ते कर्म न चातिहिंस्रमहो बतासि स्पृहणीयवीर्यः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सुरा इति ॥ एते सुराः समभ्यर्ययितारो याचितारः । कार्यं प्रयोजनं त्रयाणां विष्टपानामपि संबन्धि । सर्वलोकार्थमित्यर्थः। कर्म ते तव चापेन । न त्वन्येनेति भावः । अतिहिंस्त्रमतिघातुकं च न। अहो बत इति संबोधने । `अहो बतानुकम्पायां खेदे संबोधनेऽपि च` इति विश्वः । अथवा अहो आश्चर्ये । बतेत्यामन्त्रणे संतोषे चेति । `बतामन्त्रणसंतोषखेदानुक्रोशविस्मये` । इति विश्वः । स्पृहणीयं च इति नानार्थकोषः अन्वयः: एते सुराः समभ्यर्थयितारः । कार्यं त्रयाणाम् अपि विष्टपानाम् । कर्म ते चापेन, अतिहिंस्त्रं च न । अहो बत ! स्पृहणीयवीर्यः असि ।
KS 3.21 उपजातिः
मधुश्च ते मन्मथ साहचर्यादासवनुक्तोऽपि सहाय एव । समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मधुरिति ॥ हे मन्मथ ! असौ मधुश्च वसन्तोऽपि ते साहचर्यात्सहचरत्वादेवानुक्तोऽप्यप्रेरितोऽपि सहायः सहकार्येव । तथाहि । समीरणो वायुहुताशनस्याग्नेर्नोदयिता प्रेरको भवेति केन व्यादिश्यते । अत्र मधुसमीरणयोरुक्तिमन्तरेण सहायताकरणं सामान्यधर्मः । स च वाक्यद्वये वस्तुप्रतिवस्तुभावेन पृथङ्निर्दिष्ट इति प्रतिवस्तूपमालंकारोऽयम्। तदुक्तम्-- `यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि । गम्यौपम्याश्रिता सा स्यात्प्रतिवस्तूपमा मता ॥` इति अन्वयः: हे मन्मथ ! असौ मधुश्च ते साहचर्यात् अनुक्तोऽपि सहाय एव । समीरणो हुताऽशनस्य नोदयिता भवेति केन व्यादिश्यते ?
KS 3.22 उपजातिः
तथेति शेषामिव भर्तुराज्ञामादाय मूर्ध्ना मदनः प्रतस्थे । ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तथेति ॥ तथास्त्विति भर्तुः स्वामिनः शेषामिव प्रसाददत्तां मालामिव । `प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता` । इति विश्वः । `माल्याक्षतादिदाने स्त्री शेषा` इति वैजयन्तीकेशवौ । आज्ञां मूर्ध्नादाय शिरसा गृहीत्वा मदनः प्रतस्थे ।`समवप्रविभ्यः स्थः` (पा.1|3|22) इत्यात्मनेपदम् । इन्द्र ऐरावतास्फालनेन प्रोत्साहनार्थेन ताडनेन कर्कशेन परुषेण हस्तेन तदङ्गं मदनदेहं पस्पर्श । हस्तस्पर्शेन संभावयामासेत्यर्थः ।`शेषामिवाज्ञाम्` इत्यत्र साधकबाधकप्रमाणाभावादुपमोत्प्रेक्षयोः संदेहसंकर इति । यदि भर्त्रा शेषापि दत्ता तदा तामाज्ञामिवेत्युपमा । अथ न दत्ता तर्हि शेषात्वेनोत्प्रेक्षिता । शेषादानं तु संदिग्धमिति अन्वयः: `तथा` इति भर्तुः शेषाम् इव आज्ञां मूर्ध्ना आदाय मदनः प्रतस्थे । इन्द्रः ऐरावतास्फालनकर्कशेन हस्तेन तदङ्गं पस्पर्श ।
KS 3.23 उपजातिः
स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः । अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति ॥ स मदनोऽभिमतेन प्रियेण सख्या सुहृदा माधवेन वसन्तेन रत्या स्वदेव्या च साशङ्कं संकटमापतितमिति सभयमनुप्रयातः सन् । तथाङ्गस्य व्ययेनापि प्रार्थिता कार्यसिद्धिर्येन स तथोक्तः । शीर्त्वा मृत्वापि सर्वथा देवकार्यं साधयिष्यामीति कृतनिश्चयः सन्नित्यर्थः । हैमवतं हिमवति भवं स्थाणो रुद्रस्याश्रमं जगाम अन्वयः: सः अभिमतेन सख्या माधवेन रत्या च साशङ्कम् अनुप्रयातः (सन्) अङ्गव्ययप्रार्थितकार्यसिद्धिः हैमवतं स्थाण्वाश्रमं जगाम ।
KS 3.24 उपजातिः
तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती । संकल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति ॥ तस्मिन्वने स्थाण्वाश्रमे संयमिनां समाधिमतां मुनीनां तपसः समाधेरेकाग्रतायाः प्रतिकूलं वर्तते इति प्रतिकूलवर्ती विरोधी मधुर्वसन्तः संकल्पयोनोर्मनोभवस्याभिमानभूतम् । गर्वहेतुभूतमित्यर्थः । कार्यकारणयोरभेदोपचारः । आत्मानं निजस्वरुपमाधाय संनिधाय जजृम्भे प्रादुर्बभूव । वसन्तधर्मान्प्रवर्तयामासेत्यर्थः अन्वयः: तस्मिन् वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्तो मधुः सङ्कल्पयोनेः अभिमानभूतम् आत्मानम् आधाय जजृम्भे ।
KS 3.25 उपजातिः
कुबेरगुप्तां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य । दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोत्ससर्ज ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कुबेरेति । उष्णरश्मौ सूर्ये साहसिके च नायके समयं दक्षिणायनकालं संगमकालं च विलङ्ध्याकाण्डे व्यतिक्रम्य कुबेरगुप्तां धनपतिपालितां कुत्सितशरीरेण केनचिद्रक्षितां च दिशमुदीचीं स्त्रीलिङ्गाक्षिप्तां कांचिन्नायिकां च गन्तुं चलितुं संगन्तुं च प्रवृत्ते सति दक्षिणा दिग्दाक्षिण्यवती नायिका च मुखेनाग्रभागेन वक्त्रेण च । वहतीति वहः । पचाद्यच् । गन्धस्य वहं गन्धवहमनिलं व्यलीकेन दुःखेन निश्वासस्तं व्यलीकनिस्वासमिव । `दुःखे वैलक्ष्ये व्यलीकमप्रियाकार्यवस्तुनोः` इति वैजयन्ती । उत्ससर्ज प्रवर्तयामास । स्वभर्तरि समयोल्लङ्घनेन पराङ्गनासंगतिं प्रवृत्ते सति स्त्रियो दाक्षिण्यादकिंचिद्वदा दुःखान्निश्वसन्तीति भावः । उत्तरायणे सति मलयानिलाः प्रवृत्ताः इति वाक्यार्थः । अत्रोत्प्रेक्षालंकारः । न च समासोक्तिरेवेयमुत्प्रेक्षानुप्रविष्टेति शङ्कितव्यम् । केवलविशेषसामर्थ्यादेवाप्रस्तुतप्रतीतौ सोत्तिष्ठते । अत्र तु दक्षिणेति विशेष्यसामर्थ्यादपि नायिका प्रतीयते । नच श्लेष एव प्रकृताप्रकृतविषयः, उभयश्लेषे श्लिष्टविशेष्यानङ्गीकारात् । तस्माच्छब्दशक्तिमूलोऽयं ध्वनिः । स च व्यलीकनिश्वासरूपचेतनधर्मसंभावनार्थं दक्षिणस्या दिशो नायिकया सहाभेदमासदयन्नभेदलक्षणातिशयोक्त्युपजीविनीं निश्वासमिवेति वाच्योत्प्रेक्षां निर्वहतीति वाच्यसिद्ध्यङ्गभूत इत्युत्पश्यामः अन्वयः: उष्णरश्मौ समयं विलङ्घ्‌य कुबेरगुप्तां दिशं गन्तुं प्रवृत्ते (सति) दक्षिणा दिक्मुखेन गन्धवहं व्यलीकनिश्वासम् इव उत्ससर्ज ।
KS 3.26 उपजातिः
असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि । पादेन नापैक्षत सुन्दरीणां संपर्कमासिञ्जितनूपुरेण ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): असूतेति ॥ अशोको वृक्षविशेषः सद्यः स्कन्धात्प्रकाण्डात्प्रभृत्येव स्कन्धादारभ्येत्यर्थः । भाष्यकारवचनात्प्रभृतियोगे पञ्चमीति कैयटः । भाष्यं च `मूलात्प्रभृत्यग्राद्‌वृक्षांस्तक्ष्णुवन्ति` इति `कार्तिक्याः प्रभृत्याग्रहायणी मास` इत्यादि । सपल्लवानि कुसुमान्यसूत । उभयमप्यजीजनदित्यर्थः । आसिञ्जितो नूपुरो यस्य तेन । सिञ्जधातोः `अकर्मक--` इत्यादिना कर्तरि क्तः । सुन्दरीणां पादेन संपर्कं ताडनं नापैक्षत । `सनूपुररवेण स्त्रीचरणेनाभिताडनम् । दोहदं यदशोकस्य ततः पुष्पोद्‌गमो भवेत् ॥` इति । तथाहि- `पादाहतः प्रमदया विकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः । आलोकितः कुरुबकः कुरुते विकासमालोडितस्तिलक उत्कलिको विभाति` इति अन्वयः: अशोकः सद्यः स्कन्धात् प्रभृति एव सपल्लवानि कुसुमानि कुसुमानि असूतः आसिञ्जितनूपुरेण सुन्दरीणां पादेन सम्पर्कं न अपैक्षत ।
KS 3.27 उपजातिः
सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे । निवेशयामास मधुर्द्विरेफान्नामाक्षराणीव मनोभवस्य ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सद्य इति । मधुर्वसन्त एवेषुकारः प्रवालोद्‌गमाः पल्लवाङ्कुरा एव चारुणि पत्राणि पक्षा यस्य तस्मिन् । `पत्रं वाहनपक्षयोः` इत्यमरः (अ.को.3|3|187) । नवं चूतं चूतकुसुमं तदेव बाणस्तस्मिन्नवचूतबाणे समात्पिं नीते सति सद्यो मनोभवस्य धन्विनो नामाक्षराणीव, द्विरेफान्भ्रमरान्निवेशयामास निदधौ । अत्र प्रवालपत्र इत्याद्येकदेशविवर्तिरुपकं मधोरिषुकारत्वं रुपं यन्नामाक्षराणीवेत्युत्प्रेक्षायां निमित्तमित्येकदेशविवर्तिरुपकोत्थापितेयमुत्प्रेक्षा अन्वयः: मधुः प्रवालोद्गमचारुपत्रे नवचूतबाणे समात्पिं नीते सति सद्यो मनोभवस्य नामाक्षराणि इव द्विरेफान् निवेशयामास ।
KS 3.28 उपजातिः
वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः । प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वर्णेति । कर्णिकारं कर्णिकारकुसुमम् । `अवयवे च प्राण्योषधिवृक्षेभ्यः` (पा.4|3|135) इत्युत्पन्नस्य तद्धितस्य `पुष्पमूलेषु बहुलम्` इति लुक् । एवमन्यत्रापि द्रष्टव्यम् । वर्णप्रकर्षे वर्णोत्कर्षे सत्यपि निर्गन्धतया हेतुना चेतो दुनोति स्म पर्यतापयत् । `लट् स्मे` (पा.3|2|118) इति भूतार्थे लट् । तथाहि । प्रायेण विश्वसृजो विधातुः प्रवृत्तिर्गुणानां सामग्र्यविधौ साकल्यसंपादनविषये पराङ्मुखी । सर्वत्रापि वस्तुनि र्किचिद्वैकल्यं संपादयति । यथा चन्द्रे कलङ्कः । अतः कर्णिकारेऽपि नैर्गन्ध्यं युज्यत इति भावः । सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यासोऽलंकारः अन्वयः: कर्णिकारं वर्णप्रकर्षे सति निर्गन्धतया चेतो दुनोति स्म । प्रायेण विश्वसृजः प्रवृत्तिः गुणानां सामग्र्यविधौ पराङ्मुखी ।
KS 3.29 उपजातिः
बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): बालेन्द्विति । अविकासभावान्निर्विकासत्वान्मुकुलभावाद्देतोर्बालेन्दुरिव वक्राण्यतिलोहितान्यतिरक्तानि पलाशानि किंशुकपुष्पाणि । `पलाशं किंशुकः पर्णः` इत्यमरः । वसन्तेन पुंसा समागतानां संगतानां वनस्थलीनां स्त्रीणां सद्यः सद्यो दत्तानि । पुराणेष्वतिलौहित्याभावादिति भावः । नखक्षतानीव बभुः । अत्र वसन्तस्य वनस्थलीनां च विशेषणसाधारण्यान्नायकव्यवहारप्रतीतेः समासोक्तिस्तावदस्ति । `नखक्षतानीव` इति जातिस्वरुपोत्प्रेक्षा वक्रत्वलौहित्यगुणनिमित्ता जागर्ति । सा च नायकव्यवहाराश्रितसमासोक्तिगर्भिण्येवोत्तिष्ठत इत्युभयोरेककालतैव । विशेषणसामार्थ्यादप्रस्तुतस्य गम्यत्वे समासोक्तिरिष्यत इति हि लक्षणम् अन्वयः: अविकासभावात् बालेन्दुवक्राणि अतिलोहितानि पलाशानि वसन्तेन समागतानां वनस्थलीनां सद्यो नखक्षतानि इव बभुः ।
KS 3.30 उपजातिः
लग्नद्विरेफाञ्जनभक्तिचित्रम्मुखे मधुश्रीस्तिलकं प्रकाश्य । रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लग्नेति । मधुश्रीवंसन्तलक्ष्मीर्लग्नद्विरेफा एवाञ्जनभक्तयः कज्जलरचनास्ताभिश्चित्रं चित्रवर्णं तिलकं पुष्पविशेषमेव तिलकं विशेषकम् । मुखं प्रारम्भस्तस्मिन्नेव मुखे वक्त्रे प्रकाश्य प्रकटय्य बालारुणकोमलेन बालार्कसुन्दरेण रागेणारुणिम्ना तेनेव लाक्षारागेण चूतप्रवाल एवौष्ठस्तं चूतप्रवालोष्ठमलंचकार प्रसाधयामास । अत्र रुपकालंकारः अन्वयः: मधुश्रीः लग्नद्विरेफाञ्जनभक्तिचित्रं तिलकं मुखे प्रकाश्य बालाऽरुणकोमलेन रागेण चूतप्रवालोष्ठम् अलञ्चकार ।
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →