Skip to main content
Search
Ch. 3 KS 3.13
Full Chapter
KS • Chapter 3: Canto 3

KS 3.13

Canonical Ref: KS 3.13
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये । व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अवैमीति ॥ हे सखे, ते सारं बलमवैमि वेद्मि । अतः खल्वत एवात्मसमं मत्तुल्यं त्वां गुरुणि महति कार्ये `तस्मै हिमाद्रेः-` (३/१६) इति वक्ष्यमाणे नियोक्ष्ये । `स्वराद्यन्तोपसर्गादिति वक्तव्यम्` इति वार्तिकादात्मनेपदनियमः । तथाहि । सारपरीक्षापूर्वक एव सर्वत्र नियोग इत्याह- कृष्णेन विष्णुना । धरतीति धरः । पचाद्यच् । भुवो धरो भूधरस्तस्य भावस्तत्तां भूधरताम् । भूधरणशक्तिमित्यर्थः । अवेक्ष्य ज्ञात्वा शेषः सर्पराजो देहोद्वहनाय स्वदेहमुद्वोढुम् । `क्रियार्थोपपदस्य-` इत्यादिना चतुर्थी । व्यादिश्यते नियुज्यते । शेषशायी हि भगवान् अन्वयः: (हे सखे !) ते सारम् अवैमि । अतः खलु आत्मसमं त्वां गुरुणि कार्ये नियोक्ष्ये । कृष्णेन भूधरताम् अवेक्ष्य शेषो देहोद्वहनाय व्यादिश्यते ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
अवैमि
Lemma: अवे
POS: 1. Ā. • Verb: अवैमि
ते
Lemma: त्वद्
POS: pron
सारम्
Lemma: सार
POS: mn
अतः
Lemma: अतस्
POS: ind
खलु
Lemma: खलु
POS: ind
त्वां
Lemma: त्वद्
POS: pron
कार्ये
Lemma: कार्य
POS: n
गुरुण्य्
Lemma: गुरु
POS: adj
आत्मसमं
Lemma: आत्मन्
POS: m
आत्मसमं
Lemma: सम
POS: pron
नियोक्ष्ये
Lemma: नियुज्
POS: 7. Ā. • Verb: नियोक्ष्ये
व्यादिश्यते
Lemma: व्यादिश्
POS: 6. P. • Verb: व्यादिश्यते
भूधरताम्
Lemma: भूधर
POS: m
भूधरताम्
Lemma: ता
POS: f
अवेक्ष्य
Lemma: अवेक्ष्
POS: 1. P.
कृष्णेन
Lemma: कृष्ण
POS: m
देहोद्वहनाय
Lemma: देह
POS: mn
देहोद्वहनाय
Lemma: उद्वहन
POS: n
शेषः
Lemma: शेष
POS: mn
Canonical CTS URN Reference
Kumārasambhavam, KS 3.13. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 3.12) All Verses in Chapter 3 Next Verse (KS 3.14) →