Skip to main content
Search
KS
Kumārasambhavam • Chapter 03

Canto 3

तृतीयः सर्गः

Canto 3 of Kumārasambhavam.

Total: 76 Verses • Citations: KS 3.1–76 • 1 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
KS 3.31 उपेन्द्रवज्रा
मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर्विघ्नितदृष्टिपाताः । मदोद्धताः प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मृगा इति । प्रियालद्रुमा राजादनवृक्षाः । `राजादनः प्रियालः स्यात्` इत्यमरः । तेषां मञ्जर्यस्तासां रजःकणैर्विध्निताः संजातविध्ना दृष्टीनां पाताः प्रसादा येषां ते तथोक्ताः मदोद्धता मृगाः प्रत्यनिलमनिलाभिमुखं मर्मरा मर्मरशब्दवन्तः पत्रमोक्षा जीर्णपर्णपाता यासु ता वनस्थलीर्विचेरुर्वनप्रदेशेषु चरन्ति स्म । `देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्` । इति चरतेः सकर्मकत्वम् अन्वयः: प्रियालद्रुममञ्जरीणां रजःकणैः विध्नितदृष्टिपाता मदोद्धताः मृगाः प्रत्यनिलं मर्मरपत्रमोक्षा वनस्थलीः विचेरुः ।
KS 3.32 उपजातिः
चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज । मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): चूताङ्कुरेति । चूताङ्कुराणामास्वादेन कषायकण्ठो रक्तकण्ठः । `सरभावपथे रक्ते कषायः` इति केशवः । पुमान्कोकिलः । पुंग्रहणं प्रागल्भ्यद्योतनार्थम् । मधुरं चुकूजेति यत्तत्कूजनमेव मनस्विनीनां मानविघाते रोषनिरासे दक्षं स्मरस्य वचनं मानं त्यजतेत्याज्ञावचनं जातम् । कोकिलकूजितश्रवणानन्तरं स्मराज्ञत्पा इव मानं जहुरित्यर्थः अन्वयः: चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यत् मधुरं चुकूज, तद् एव मनस्विनीमानविघातदक्षं स्मरस्य वचनं जातम् ।
KS 3.33 उपजातिः
हिमव्यपायाद्विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम् । स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): हिमेति । हिमस्य व्यपायादपगमाद्विशदा नीरुजा अधरा ओष्ठा यासां तासामापाण्डरीभूतमुखच्छवीनाम् । कुङ्कुमपरिहारादिति भावः । किंपुरूषाङ्गनानां पत्रविशेषकेषु पत्ररचनासु स्वेदोद्‌गमः पदं चक्रे । घर्मोदयात्स्वेदोदयोऽभूदित्यर्थः । विशदाधरात्वं मधूच्छिष्टराहित्यादिति हेमन्तेषु नार्यो बिम्बोष्ठेषु मधुच्छिष्टं शीतभयाद्दधतीति प्रसिद्धम् अन्वयः: हिमव्यपायात् विशदाऽधराणाम् आपाण्डरीभूतमुखच्छवीनां किंपुरुषाऽङ्गनानां पत्रविशेषकेषु स्वेदोद्‌गमः पदं चक्रे ।
KS 3.34 उपजातिः
तपस्विनः स्थाणुवनौकसस्तामाकालिकीं वीक्ष्य मधुप्रवृत्तिम् । प्रयत्नसंस्तम्भितविक्रियाणां कथं चिदीशा मनसां बभूवुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तपस्विन इति । स्थाणोर्वनमोको येषां ति तपस्विनस्तत्रत्या मुनयः । समानकाले आद्यन्तावस्या आकालिकीम् । अकालभवत्वादुत्पत्त्यनन्तरविनीशिनीमित्यर्थः । `आकालिकडाद्यन्तवचने` (पा.5|1|114) इति समानकालदिकट्प्रत्ययः प्रकृतेराकाल आदेशश्च निपातितः । `टिड्ढाणञ्-` इत्यादिना ङीप् । केचिदकालाद् देहादध्यात्मादित्वाद्भवार्थे ठगित्याहुः । तामाकालिकीं मधुप्रवृत्तिं वीक्ष्य प्रयत्नेन संस्तम्भितविक्रियाणां निरुद्धविकाराणां मनसां कथंचिदीशा नियन्तारो बभूवुः अन्वयः: स्थाणुवनौकसः तपस्विनः आकालिकीं तां मधुप्रबृत्तिं वीक्ष्य प्रयत्नसंस्तम्भितविक्रियाणां मनसां कथंचित् ईशा बभूवुः ।
KS 3.35 उपजातिः
तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने । काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति । आरोपितमधिज्यं कृतं पुष्पचापं येन तस्मिन्रतिर्द्वितीया यस्य तस्मिन्रतिसहाये मदने तं देशं स्थाण्वाश्रमं प्रपन्ने प्राप्ते सति द्वन्द्वानि स्थावराणि जङ्गमानि च मिथुनानि काष्ठोत्कर्षः । `काष्ठोत्कर्षे स्थितौ दिशि` इत्यमरः (अ.को.3|3|47) । तां गतो यः स्नेह इष्टसाधननिबन्धनः प्रेमापरनामा ममताभिमानः `प्रेमा ना प्रियता हार्दं प्रेम स्नेहः` इत्यमरः (अ.को.3|3|47) । स एव रसस्तेनानुविद्धं संपृक्तं भावं रत्याख्यं श्रृङ्गारभावं क्रियया कार्यभूतया चेष्टया विवब्रुः प्रकटीचक्रुः । श्रृङ्गारचेष्टाः प्रावर्तन्तेत्यर्थः अन्वयः: आरोपितपुष्पचापे रतिद्वितीये मदने तं देशं प्रपन्ने सति द्वन्द्वानि काष्ठागतस्नेहरसाऽनुविद्धं भावं क्रियया विवब्रुः ।
KS 3.36 उपजातिः
मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मध्विति । द्वौ रेफौ वर्णविशेषौ यस्य स द्विरेफो भ्रमरः । उपचारात्तदर्थोऽपि द्विरेफ उच्यते । यथाह कैयटः- `शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते । यथा भ्रमरशब्दस्य द्विरेफत्वाद् द्विरेफो भ्रमरः` इति । कुसुममेवैकं साधारणं पात्रं तस्मिन्मधु मकरन्दम् । `मधु मद्ये पुष्परसे` इति विश्वः । स्वां प्रियां भृङ्गीमनुवर्तमानोऽनुसरन्पपौ । तत्पीतशेषं पपावित्यर्थः । कृष्णश्चासौ सारः शवलश्च कृष्णसारः कृष्णमृगः । `वर्णो वर्णेन` (पा.2|1|69) इति समासः । स्पर्शेन स्पर्शसुखेन निमीलिताक्षीं मृगीं श्रृङ्गेणाकण्डूयत कर्षितवान् । `कण्ड्‌वादिभ्यो यक्‌` इति यक् । ततः कर्तरि लङ् अन्वयः: द्विरेफः कुसुमैकपात्रे मधु स्वां प्रियाम् अनुवर्तमानः (सन्) पपौ । कुष्णासारश्च स्पर्शनिमीलिताक्षीं मृगीं श्रृङ्णेण अकण्डूयत ।
KS 3.37 उपजातिः
ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः । अर्धोपभुक्तेन बिसेन जायां संभावयामास रथाङ्गनामा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ददाविति । रसादतिरागात्करेणुः करिणी । `करेणुरिभ्यां स्त्री नेभे` इत्यमरः (अ.को.3|3|59) । पङ्काज्जायत इति पङ्कजं तस्य रेणुः पङ्कजरेणुस्तस्य गन्धोऽस्यास्तीति पङ्कजेरणुगन्धि गण्डूषजलं मुखान्तर्धृतजलं गजाय ददौ । रथाङ्गनामा चक्रवाकोऽर्धं यथातथोपभुक्तेनार्द्धजग्धेन बिसेन जायां संभावयामास । स्वजग्धशेषं ददावित्यर्थः अन्वयः: रसात् करेणुः पङ्कजरेणुगन्धि गण्डूषजलं गजाय ददौ । रथाऽङ्गनामा च अर्धोपमुक्तेन बिसेन जायां सम्भावयामास ।
KS 3.38 उपजातिः
गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्वासितपत्रलेखम् । पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किंपुरुषश्चुचुम्बे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गीतान्तरेष्विति । किंपुरुषः किंनरः श्रमवारिलेशैः स्वेदोदबिन्दुभिः किंचिदीषत्समुच्छ्‌वासिता विश्लेषिताः पत्रलेखा यस्य तत् । पुष्पाणामासवो मद्यं पुष्पासवः । पुष्पोद्भवमद्यमित्यर्थः । वसन्ते मधूकस्य संभवात्पुष्पवासितमिति केचित् । तेनाघूर्णिताभ्यामुद्‌भ्रान्ताभ्यां शोभत इति तथोक्तं प्रियामुखं गीतान्तरेषु गीतमध्यंषु चुचुम्बे चुचुम्ब अन्वयः: किंपुरुषः गीताऽन्तरेषु श्रमवारिलेशैः किञ्चित्समुच्छ्‌वासितपत्रलेखं पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं चुचुम्बे ।
KS 3.39 उपजातिः
पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालौष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पर्याप्तेति । पर्याप्ताः समग्राः पुष्पस्तबका एव स्तना यासां ताभ्यः । `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्` (पा.4|1|54) इति विकल्पान्न ङीप् । स्फुरन्तः प्रवालाः पल्लवा एवौष्ठास्तैर्मनोहराभ्यो लता एव वध्वस्ताभ्यः सकाशात्तरवोऽपि । लिङ्गादेव पुंस्त्वं गम्यते । विनम्राः शाखा एव भुजास्तैर्बन्धनान्यवापुः । ताभिरालिङ्गिता इत्यर्थः । स्थावराणामपि मदनविकारोऽभूत्किमुतान्योषामिति भावः । एतच्च तरुलतानामपि चेतनत्वादुक्तम् । यथाह मनुः- `अन्तः संज्ञा भवन्त्येते सुखदुःखसमन्विताः` । इति । अत्र रुपकालंकारः अन्वयः: तरवोऽपि पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यो लतावधूभ्यः विनम्रशाखाभुजबन्धनानि अवापुः ।
KS 3.40 उपजातिः
श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): श्रुतेति । अस्मिन्क्षणे वसन्ताविर्भावकाले भगवान्हरः श्रुताप्सरोगीतिरपि । दिव्याङ्गनागानमाकर्णयन्नपीत्यर्थः । प्रसंख्यानपर आत्मानुसंधानपरो बभूव । तथाहि । आत्मनश्चित्तस्येश्वराणां नियन्तॄणाम् । वशिनामित्यर्थः । विहन्यन्त एभिरिति विध्नाः प्रत्यूहाः । घञर्थे कप्रत्ययः । जातु कदाचिदपि समाधिभेदे समाधिभञ्जने प्रभवः समर्था न भवन्ति अन्वयः: अस्मिन् क्षणे हरः श्रुताऽप्सरोगीतिः अपि प्रसंख्यानपरो बभूव । आत्मेश्वराणां विध्ना जातु समाधिभेदप्रभावा न भवन्ति ।
KS 3.41 उपजातिः
लतागृहद्वारगतोऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः । मुखार्पितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान्व्यनैषीत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लतेति । अथ लतागृहद्वारं गतो वामे प्रकोष्ठेऽर्पितहेमवेत्रो धारितहेमदण्डो नन्दी नन्दिकेश्वरः । `नन्दी भृङ्गिरिटिस्तण्डुनन्दिनौ नन्दिकेश्वरे` इति कोशः । मुखेऽर्पितायाः सरोषविस्मयस्तिमितावलोकं निहिताया एकस्या अङ्गुलेस्तर्जन्याः संज्ञया सूचनयैव । `संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना` इत्यमरः (अ.को.3|3|40) । गणान्प्रमथांश्चापलाय चापलं कर्तुं मा भवतेति । `क्रियार्थोपपदस्य-` इत्यादिना चतुर्थी । व्यनैषीच्छिक्षितवान् अन्वयः: अथ लतागृहद्वारगतो वामप्रकोष्ठार्पितहेमवेत्रः नन्दी मुखाऽर्पितैकाऽङ्गुलिसंज्ञया एव गणान् `चापलाय मा (भूत) इति व्यनैषीत् ।
KS 3.42 इन्द्रवज्रा
निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् । तच्छासनात्काननमेव सर्वं चित्रार्पितारम्भमिवावतस्थे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निष्कम्पेति । निष्कम्पवृक्षम्, इदमुद्भिजोपलक्षणम् । निभृतद्विरेफं निश्चलभृङ्गम् । स्वेदजोपलक्षणमेतत् । मूकाण्डजं निः शब्दंपक्षिसरीसृपादिकम् । एतेनाण्डजजातिरुक्ता । शान्तमृगप्रचारम्, जरायुजोपलक्षणमेतत् । सर्वमेव काननं तच्छासनान्नन्दीश्वराज्ञया चित्रार्पितारम्भं चित्रलिखितारम्भमिवावतस्थे । `नृगवाद्या जरायुजाः । स्वेदजाः कृमिदशाद्याः पक्षिसर्पादयोऽण्डजाः । `उद्भिदस्तरुगुल्माद्या` इत्यमरः अन्वयः: निष्कम्पवृक्षं निभृतद्विरेफं मूकाऽण्डजं शान्तमृगप्रचारं सर्वम् एव काननं तच्छासनात् चिऽत्रार्पितारम्भम् इव अवतस्थे ।
KS 3.43 इन्द्रवज्रा
दृष्टिप्रपातं परिहृत्य तस्य कामः पुरःशुक्रमिव प्रयाणे । प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दृष्टिप्रपातमिति । कामः प्रयाणे यात्रायां पुरोगतः शुक्रो यस्मिन्देशे तं पुरःशुक्रं देशमिव । `प्रतिशुक्रं प्रतिबुधं प्रत्यङ्गारकमेव च । अपि शक्रसमो राजा हतसैन्यो निवर्तते ।` इति प्रतिषेधात् । तस्य दृष्टिप्रपातं दृग्विषयं परिहृत्य प्रान्तेषु पार्श्वदेशेषु संसक्ता अन्योन्यसंसृष्टा नमेरुणां सुरपंनागानां शाखा यस्य तत् । तिरोधानयोग्यमिति भावः । भूतपतेः शिवस्य ध्यानास्पदं समाधिस्थानम् । `आस्पदं प्रतिष्ठायम्` इति निपातः । विवेश अन्वयः: कामः प्रयाणे पुरःशुक्रम् (देशम्) इव तस्य दृष्टिप्रपातं परिहृत्य प्रान्तेषु संसक्तनमेरुशाखं भूतपतेः ध्यानास्पदं विवेश ।
स देवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् । आसीनमासन्नशरीरपातस्त्र्यम्बकं संयमिनं ददर्श ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति । आसन्नशरीरपात आसन्नमृत्युः स कामः शार्दूलचर्मणा व्यवधानवत्याम् । व्याघ्रचर्मास्तृतायामित्यर्थः । `मोक्षश्रीर्व्याघ्रचर्मणि` इति प्राशस्त्यादिति भावः । देवदारुद्रुमवेदिकायामासीनमुपविष्टं संयमिनं समाधिनिष्ठं त्रियम्बकं त्रिनेत्रं ददर्श । केचित्साहसिकाः `त्रिलोचनम्` इति पेठुः । त्र्यम्बकमित्युक्ते पादपूरणव्यत्यासात्त्रियम्बकमिति पादपूरणार्थोऽयमियङादेशश्छान्दसो महाकविप्रयोगादभियुक्तैरङ्गीकृतः अन्वयः: आसन्नशरीरपातः स शर्दूलचर्मव्यवधानवत्यां देवदारुद्रुमवेदिकायाम् आसीनं संयमिनं त्रियम्बकं ददर्श ।
KS 3.45 उपजातिः
पर्यङ्कबन्धस्थिरपूर्वकायम् ऋज्वायतं संनमितोभयांसम् । उत्तानपाणिद्वयसंनिवेशात्प्रफुल्लराजीवमिवाङ्कमध्ये ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पर्यङ्केति । पर्यङ्कबन्धेन वीरासनेन स्थिरपूर्वकायं निश्चलोत्तरार्धमृजुरायतश्चर्ज्वायतस्तं संनमिताबुभावसौ यस्य तं तथोक्तम् । वृत्तिविषये उभशब्दस्थान उभयशब्दप्रयोग इत्युक्तं कैयटेन । उत्तान ऊर्ध्वतलो यः पाणिद्वयस्य संनिवेशः संस्थानं तस्मादङ्कमध्ये प्रफुल्लं राजीवं पङ्कजं यस्य तमिव स्थितम् । वीरासने वसिष्ठः- `एकं पादमथैकस्मिन्विन्यस्योरौ तु संस्थितम् । इतरस्मिंस्तथैवोरुं वीरासनमुदाहृतम् ॥` इति । तथा योगसारे- `उत्तानिते करतले करमुत्तानितं परम् । आदायाङ्कगतं कृत्वा ध्यायेद्यस्तस्य सोऽन्तरम् ॥` इति अन्वयः: पर्यङ्कबन्धस्थिरपूर्वकायम् ऋज्वायतं संनमितोत्तमाऽङ्गम् उत्तानपाणिद्वयसंवनिवेशात् अङ्कमध्ये प्रफुल्लराजीवम् इव (स्थितं ददर्श) ।
KS 3.46 उपजातिः
भुजंगमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम् । कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमतीं दधानम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भुजंगमेति ॥ बुजंगमोन्नद्ध उन्नमय्य बद्धो जटाकलापो येन तं तथोक्तम् । कर्णावसक्तम् । कर्णावलम्बीत्यर्थः । अत एव द्विगुणं द्विरावृत्तमक्षसूत्रमक्षमाला यस्य तं कण्ठप्रभाणां सङ्गेन मिश्रणेन विशेषनीलामतिनीलां ग्रन्थिमतीं बन्धनयुक्तां कृष्णत्वचं कृष्णमृगाजिनं दधानम् अन्वयः: भुजङ्गमोन्नद्धजटाकलापं कर्णाऽवसक्तद्विगुणाऽक्षसूत्रं कण्ठप्रभासङ्गविशेषनीलां ग्रन्थिमतीं कृष्णत्वचं दधानम् (तं ददर्श) ।
KS 3.47 इन्द्रवज्रा
किंचित्प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां विरतप्रसङ्गैः । नेत्रैरविस्पन्दितपक्ष्ममालैर्लक्ष्यीकृतघ्राणमधोमयूखैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): किंचिदिति । किंचित्प्रकाशाः ईषत्प्रकाशाः स्तिमिता निश्चला उग्राश्च ताराः कनीनिका येषां तैः । `तारकाक्ष्णः कनीनिका` इत्यमरः (अ.को.2|6|93) । भ्रूविक्रियायां भ्रूविक्षेपे विरतप्रसङ्गैः प्रसक्तिरहितैरविस्पन्दितपक्ष्ममालैरचलितपक्ष्मपङ्क्तिभिरधःप्रसृता मयूखा येषां तैरधोमयूखैर्नेत्रैः । त्रिनेत्रत्वाद्वहुवचनम् । लक्ष्यीकृतघ्राणं नासाग्रनिविष्टदृष्टिमित्यर्थः । `करणान्यबहिष्कृत्य स्थणुवन्निश्चलात्मकः । आत्मानं हृदये ध्यायेन्नासाग्रन्यस्तलोचनः ॥` इति योगसारे अन्वयः: किञ्चित्प्रकाशस्तिमितोग्रतारैः भ्रूविक्रियायां विरतप्रसङ्गैः अविस्पन्दितपक्ष्ममालैः अधोमयूखैः नेत्रैः लक्ष्यीकृतघ्राणम् (तं ददर्श) ।
KS 3.48 उपजातिः
अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरङ्गम् । अन्तश्चराणां मरुतां निरोधान्निवातनिष्कम्पमिव प्रदीपम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अवृष्टीति । अन्तश्चरन्तीत्यन्तश्चरास्तेषां मरुतां प्राणादीनां निरोधाद्धेतोरवृष्टिसंरम्भमविद्यमानवर्षसंभ्रममम्बुवाहमिव स्थितम् । एतेन प्राणनिरोधः सूचितः । अनुत्तरङ्गमनुद्‌भूततरङ्गमपामाधारे ह्रदमिव स्थितम् । एतेनापाननिरोधः सूचितः । तथा निर्वाते निर्वातप्रदेशे निष्कम्पं निश्चलं प्रदीपमिव स्थितम् । एतेन शेषवायुनिरोधः सूचितः । `निवातावाश्रयावातौ` इत्यमरः अन्वयः: अन्तश्चराणां मरुतां निरोधात् अवृष्टिसंरम्भम् अम्बुवाहम् इव, अनुत्तरङ्गम् अपाम् आधारम् इव निवातनिष्कम्पं दीपम् इव (स्थितं तं ददर्श) ।
KS 3.49 उपजातिः
कपालनेत्रान्तरलब्धमार्गैर्ज्योतिःप्ररोहैरुदितैः शिरस्तः । मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कपालेति । कपालनेत्रान्तरेण ब्रह्मकरोटिनेत्रविवरेण लब्धमार्गैः शिरस्तो ब्रह्मरन्ध्रात् पञ्चम्यास्तसिल्‌ । उदितैरुद्‌भूतैर्ज्योतिः प्ररोहैस्तेजोङ्कुरैमृंणालसूत्राधिकं सौकुमार्यं मार्दवं यस्यास्तां बालस्येन्दोः शिरश्चन्द्रस्य लक्ष्मीं ग्लपयन्तम् अन्वयः: कपालनेत्रान्तरलब्धमार्गैः शिरस्त उदितैः ज्योतिःप्ररोहैः मृणालसूत्राऽधिकसौकुमार्यां बालस्य इन्दोः लक्ष्मीं ग्लपयन्तम् (तं ददर्श)
KS 3.50 उपजातिः
मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् । यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मन इति । नवभ्यो द्वारेभ्यो निषिद्धा निवर्तिता वृत्तिः संचारो यस्य तत्तथोक्तम् । समाधिना प्रणिधानेन वश्यं वशंगतम् । यत्प्रत्ययः । `प्रणिधानं समाधानं समाधिश्च समाश्रयः` इति हलायुधः । मनो हृदि हृदयाख्येऽधिष्ठाने व्यवस्थाप्य । तथा च वसिष्ठः- `यतो निर्याति विषयान्यस्मंश्चैव प्रलीयते । हृदयं तद्विजानीयान्मनसः स्थितिकारणम् ॥` इति । क्षेत्रविदः क्षेत्रज्ञाः पुरुषाः । यं न क्षरतीत्यक्षरमविनाशिनं विदुर्विदन्ति । `विदो लटो वा ` इति झेर्जुस्‌ । तमात्मानमात्मनि स्वस्मिन्नवलोकयन्तं साक्षात्कुर्वन्तम् । स्वातिरेकेण परमात्मनोऽभावादिति भावः अन्वयः: नवद्वारनिषिद्धवृत्ति समाधिवश्यं मनो हृदि व्यवस्थाप्य क्षेत्रविदः यम् अक्षरं विदुः तम् आत्मानम् आत्मनि अवलोकयन्तम् (तं ददर्श)।
KS 3.51 उपजातिः
स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् । नालक्षयत्साध्वससन्नहस्तः स्रस्तं शरं चापमपि स्वहस्तात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्मरेति । स्मरः कामस्तथाभूतं पूर्वोक्तरुपं मनसाप्यधृष्यमयुग्मनेत्रं विषमाक्षमदूरात्पश्यन् । साध्वसेन सन्नहस्तो विश्लथपाणिः सन् । स्वहस्तात्स्त्रस्तं शरं चापमपि चापं च नालक्षयन्न विवेद । भीतो मुह्यतीति भावः अन्वयः: स्मरः तथाभृतं मनसा अपि अधृष्यम् अयुग्मनेत्रम् अदूरात् पश्यन् साध्वससन्नहस्तः (सन् ) स्वहस्तात् स्त्रस्तं शरं चापम् अपि न अलक्षयत् ।
KS 3.52 उपजातिः
निर्वाणभूयिष्ठमथास्य वीर्यं संधुक्षयन्तीव वपुर्गुणेन । अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निर्वाणेति । अथ निर्वाणेन नाशेन भूयिष्ठं निर्वाणभूयिष्ठम् । नष्टप्रायमित्यर्थः । अस्य स्मरस्य वीर्यं बलं वपुर्गुणेन सौन्दर्येण संधुक्षयन्तीव पुनरुज्जीवयन्तीव स्थिता वनदेवताभ्याम् सखीभूताभ्यामनुप्रयातानुगता स्थावरराजकन्या पार्वत्यदृश्यत दृष्टा अन्वयः: अथ निर्वाणभूयिष्ठम् अस्य वीर्यं वपुर्गुणेन सन्धुक्षयन्ती इव (स्थिता) वनदेवताभ्याम् अनुप्रयाता स्थावरराजकन्या अदृश्यत् ।
KS 3.53 उपजातिः
अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् । मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अशोकेति । अशोकपुष्पेण निर्भर्त्सितास्तिरस्कृताः पद्मरागा येन तत्तथोक्तम् । आकृष्टहेमद्युतीन्याहृतस्वर्णाभरणवर्णानि कर्णिकाराणि यर्स्मिस्तत् तथोक्तम् । मुक्ताकलापीकृतानि सिन्धुवाराणि निगुण्डीकुसुमानि यस्मिंस्तत् । `सिन्धुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि` इत्यमरः । वसन्तपुष्पाण्येवाभरणं वहन्ती अन्वयः: अशोकनिर्भर्त्सितपद्मरागम् आकृष्टहेमद्युतिकर्णिकारं मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती (स्थावरराजकन्या अदृश्यत) ।
KS 3.54 इन्द्रवज्रा
आवर्जिता किं चिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आवर्जितेति । स्तनाभ्यां किंचिदावर्जितेवेषदानमितेव तरुणार्कस्य राग इव रागो यस्य तत् । बालार्कारुणमित्यर्थः । उपमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च । वासो वसानाच्छादयन्ती । अत एव पर्याप्तपुष्पस्तबकावनम्रा पल्लविनी किसलयवती संचारिणी लतेव । स्थितेति शेषः अन्वयः: स्तनाभ्यां किञ्चित् आवर्जिता इव, तरुणाऽर्करागं वासो वसाना (अत एव) पर्याप्तपुष्पस्तबकाऽवनम्रा सञ्चारिणी पल्लविनी लता इव (स्थावरराजकन्या अदृश्यत) ।
KS 3.55 उपजातिः
स्रस्तां नितम्बादवलम्बमाना पुनः-पुनः केसरदामकाञ्चीम् । न्यासीकृतां स्थानविदा स्मरेण मौर्वीं द्वितीयामिव कार्मुकस्य ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्रस्तामिति । स्थानविदा निक्षेपयोग्यस्थानवेदिना स्मरेण न्यासीकृतां निक्षेपीकृताम् । कर्मणि प्रभवतीति कार्मुकं धनुः । `कर्मण उकञ्` (पा.5|1|103) इत्युकञ्प्रत्ययः । तस्य द्वितीयां मौर्वीमिव स्थिताम् । अत्र हि न्यस्ता मौर्व्युत्तरत्र हरवैरनिर्यातनायोपयुज्यत इति भावः । नितम्बात्स्रस्तां चलितां केसरदाम बकुलमाला सैव काञ्ची तां पुनः पुनरवलम्बमाना हस्तेन धारयन्ती अन्वयः: स्थानविदा स्मरेम न्यासीकृता कार्मुकस्य द्वितीयां मौर्वीम् इव नितम्बात् स्रस्तां केसरदामकाञ्चीं पुनः पुनः अवलम्बमाना (स्थावरराजकन्या अदृश्यत) ।
KS 3.56 उपजातिः
सुगन्धिनिःश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम् । प्रतिक्षणं संभ्रमलोलदृष्टिर्लीलारविन्देन निवारयन्ती ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सुगन्धीति । सुगन्धिभिर्निश्वासैर्विवृद्धतृष्णम् । बिम्बतुल्योऽधरो बिम्बाधरः । `वृत्तौ मध्यपदलोपः स्यात्` इति वामनः । तस्यासन्नचरं संनिकृष्टचरं द्विरेफं भृङ्गं प्रतिक्षणं संभ्रमेण लोलदृष्टिश्चञ्चलाक्षी सती लीलारविन्देन निवारयन्ती अन्वयः: सुगन्धिनिश्वासविवृद्धतृष्णं बिम्बाऽधरासन्नचरं द्विरेफं प्रतिक्षणं संभ्रमलोलदृष्टिः (सती) लीलाऽरविन्देन निवारयन्ती (स्थावरराजकन्या अदृश्यत) ।
KS 3.57 उपजातिः
तां वीक्ष्य सर्वावयवानवद्यां रतेरपि ह्रीपदमादधानाम् । जितेन्द्रिये शूलिनि पुष्पचापः स्वकार्यसिद्धिं पुनराशशंसे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तामिति । सर्वावयवेष्वनवद्यामगर्ह्याम् । `अवद्यपण्ये-` ति निपातः । रतेः कामकलत्रस्यापि ह्रीपदं लज्जानिमित्तमादधानाम् । न्यूनतामावहन्तीमित्यर्थः । तां पार्वतीं वीक्ष्य पुष्पचापः कामो जितेन्द्रिये दुर्जयेऽपीत्यर्थः । शूलिनि शिवे विषये स्वकार्यसिद्धिं पुनराशशंसे चकमे । पूर्वं `साध्वससन्नहस्तः` (३, ५१) इत्यादिना कार्यसिद्धेरुन्मूलितत्वाभिधानादिह पुनरित्युक्तम् अन्वयः: सर्वाऽवयवाऽनवद्यां रतेः अपि ह्रीपदम् आदधानां तां वीक्ष्य पुष्पचापः जितेन्द्रये शूलिनि स्बकार्यसिद्धिं पुनः आशशंसे ।
KS 3.58 उपजातिः
भविष्यतः पत्युरुमा च शंभोः समाससाद प्रतिहारभूमिम् । योगात्स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरुपारराम ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भविष्यत इति । उमा च भविष्यतः पत्युः शंभोः प्रतिहारभूमिं द्वारदेशं समाससाद । `स्त्री द्वार्द्वारं प्रतीहारः` इत्यमरः (अ.को.2|2|16) । स शंभुश्चान्तः परमात्मेति संज्ञा यस्य तत्परं मुख्यम् `रं दूरान्मुख्येषु ` इति यादवः । ज्योतिर्दृष्ट्वा साक्षात्कृत्य योगध्यानात्। `योगः संनहनोपायध्यानसंगतियुक्तिषु` इत्यमरः (अ.को.2|2|16) । उपाररामोपारतः । `व्याङ्परिभ्यो रमः` (पा.1|3|83) इति परस्मैपदम् अन्वयः: उमा च भविष्यतः पत्युः शम्भोः प्रतिहारभूमिं समाससाद । स च अन्तः परमात्मसंज्ञं परं ज्योतिः दृष्ट्वा योगात् उपारराम ।
KS 3.59 उपजातिः
ततो भुजंगाधिपतेः फणाग्रैरधः कथं चिद्धृतभूमिभागः । शनैः कृतप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति । ततो भुजंगाधिपतेः शेषस्य फणाग्रैरधो भूमेरधः कथंचिदतियत्नेन धृतो भूमिभागः स्वोपवेशनभूभागो यस्य स तथोक्तः । वायुधारणाहितलाघवनिवृत्त्या भगवतो गुरुत्वादिति भावः । शनैः कृता प्राणानां प्राङ्‌निरुद्धानां विमुक्तिः पुनः संचारो येन स कृतप्राणविमुक्तिरीशो निबिडं दृढं पर्यङ्कबन्धं वीरासनं बिभेद शिथिलीचकार अन्वयः: ततो भुजङ्गाऽधिपतेः फणाऽग्रैः अधः कथंचिद्‌धृतभूमिभागः शनैः कृतप्राणविमृक्तिः ईशः निबिडं पर्यङ्कबन्धं बिभेद ।
KS 3.60 उपजातिः
तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषया शैलसुतामुपेताम् । प्रवेशयामास च भर्तुरेनां भ्रूक्षेपमात्रानुमतप्रवेशाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्मा इति । अथ नन्दी तस्मै भगवते । क्रियाग्रहणाच्चतुर्थी । प्रणिपत्य नमस्कृत्य शुश्रूषया सेवया निमित्तेनोपेताम् । सेवार्थमागतामित्यर्थः । शैलसुतां शशंस निवेदयामास । भर्तुः स्वामिनो भ्रूक्षेपमात्रेण भ्रूसंज्ञयैवानुमतप्रवेशामङ्गीकृतप्रवेशामेनां शैलसुतां प्रवेशायामास च अन्वयः: अथ नन्दी तस्मै प्रणिपत्य शुश्रूषया उपेतां शैलसुतां । भर्तुः भ्रूक्षेपमात्राऽनुमतप्रवेशाम् एनां प्रवेशायामास च ।
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →