Skip to main content
Search
Ch. 3 KS 3.19
Full Chapter
KS • Chapter 3: Canto 3

KS 3.19

Canonical Ref: KS 3.19
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तस्मिन्सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् । अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति ॥ सुराणां विजयाभ्युपाये जयस्योपायभूते तस्मिन्हरेऽस्त्रप्रसरस्तवैव नाम । नामेति संभावनायाम् । अन्येषां तु संभावनापि नास्तीति भावः । अतस्त्वं कृती कृतार्थः । तथाहि । अप्रसिद्धमप्यनन्यसाधारणमेव कर्म पुंसां यशसे हि । इदं तु प्रसिद्धमसाधारणं चेत्यतियशस्करमिति भावः अन्वयः: सुराणां विजयाभ्युपाये तस्मिन् अस्त्रगतिः तव एव नाम । अतः त्वं कृती । हि अप्रसिद्धम् अपि अनन्यसाधारणम् एव कर्म पुंसां यशसे भवति ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तस्मिन्
Lemma: तद्
POS: pron
सुराणां
Lemma: सुर
POS: m
विजयाभ्युपाये
Lemma: विजय
POS: m
विजयाभ्युपाये
Lemma: अभ्युपाय
POS: m
तवैव
Lemma: त्वद्
POS: pron
तवैव
Lemma: एव
POS: ind
नामास्त्रगतिः
Lemma: नाम
POS: ind
नामास्त्रगतिः
Lemma: अस्त्र
POS: mn
नामास्त्रगतिः
Lemma: गति
POS: f
कृती
Lemma: कृतिन्
POS: adj
त्वम्
Lemma: त्वद्
POS: pron
अप्य्
Lemma: अपि
POS: ind
अप्रसिद्धं
Lemma: अप्रसिद्ध
POS: adj
यशसे
Lemma: यशस्
POS: n
हि
Lemma: हि
POS: ind
पुंसाम्
Lemma: पुंस्
POS: m
अनन्यसाधारणम्
Lemma: अनन्य
POS: adj
अनन्यसाधारणम्
Lemma: साधारण
POS: adj
एव
Lemma: एव
POS: ind
कर्म
Lemma: कर्मन्
POS: n
Canonical CTS URN Reference
Kumārasambhavam, KS 3.19. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 3.18) All Verses in Chapter 3 Next Verse (KS 3.20) →