Skip to main content
Search
Full Chapter
KS • Chapter 3: Canto 3

KS 3.1

Canonical Ref: KS 3.1
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तस्मिन्मघोनस्त्रिदशान्विहाय सहस्रमक्ष्णां युगपत्पपात । प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति । मघोन इन्द्रस्याक्ष्णां सहस्त्रं त्रिरावृत्ता दशपरिमाणमेषामिति त्रिदशान्देवान् । `संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये` इति बहुव्रीहिः । `बहुव्रीहौ संख्येये-` इति डच्प्रत्ययः । उक्तार्थत्वात्सुचो निवृत्तिः । विहाय त्यक्तवा तस्मिन्कामे युगपत्पपात । सहस्त्रेणाक्षिभिरद्राक्षीदित्त्यादरातिशयोक्तिः । ननु सुचिरपरित्यगेन भगवतो महेन्द्रस्य कथमकाण्डे तस्मिन्नेकस्मिन्पक्षपात इत्याशङ्क्यार्थान्तरं न्यस्यति- प्रायो भूम्ना प्रभूणामाश्रितेषु सेवकेषु विषये गौरवमादरः प्रयोजनापेक्षितया कार्यार्थित्वेन हेतुना चलं चञ्चलम् । फलतन्त्राः प्रभवो न तु गुणतन्त्रा इति भावः अन्वयः: मघोन अक्ष्णां सहस्त्रं त्रिदशान् विहाय तस्मिन् युगपत् पपात । प्रायः प्रभूणाम् आश्रितेषु गौरवं प्रयोजनाऽपेक्षितया चलम् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तस्मिन्
Lemma: तद्
POS: pron
मघोनस्
Lemma: मघवन्
POS: m
त्रिदशान्
Lemma: त्रिदश
POS: m
विहाय
Lemma: विहा
POS: 3. Ā.
सहस्रम्
Lemma: सहस्र
POS: mn
अक्ष्णां
Lemma: अक्षि
POS: n
युगपत्
Lemma: युगपद्
POS: ind
पपात
Lemma: पत्
POS: 1. Ā. • Verb: पपात
प्रयोजनापेक्षितया
Lemma: प्रयोजन
POS: n
प्रयोजनापेक्षितया
Lemma: अपेक्षिन्
POS: adj
प्रयोजनापेक्षितया
Lemma: ता
POS: f
प्रभूणां
Lemma: प्रभु
POS: adj
प्रायश्
Lemma: प्रायस्
POS: ind
चलं
Lemma: चल
POS: adj
गौरवम्
Lemma: गौरव
POS: n
आश्रितेषु
Lemma: आश्रि
POS: 1. Ā.
Canonical CTS URN Reference
Kumārasambhavam, KS 3.1. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.64) All Verses in Chapter 3 Next Verse (KS 3.2) →