Skip to main content
Search
Ch. 2 KS 2.64
Full Chapter
KS • Chapter 2: Canto 2

KS 2.64

Canonical Ref: KS 2.64
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथ स्मरणानन्तरम् । स स्मृत इत्यर्थः । पुष्पं धनुर्यस्य स पुष्पधन्वा कामः । `वा संज्ञायाम्` (पा.5|4|133) इत्यनङ् । `ललितं त्रिषु सुन्दरम्` इत्मरः । ललितायाः सुन्दर्या योषितो भ्रुवौ लते इव चारुणी श्रृङ्गे कोटी यस्य तत्तथोक्तं चापम् । रतिः स्मरप्रिया । रतिः स्मरप्रिया` इत्यमरः । तस्या वलयपदानि कङ्कणस्थानान्यङ्कश्चिह्नं यस्य स तथोक्ते कण्ठ आसज्य लगयित्वा । चापकण्ठविशेषणाभ्यां श्रृङ्गारैकनिधेस्त्रिभुवनैकवीरस्य श्रृङ्गारवीरोपकरणेषु तुल्यरसत्वं व्यज्यते । सहचरस्य सख्युर्मधोर्वसन्तस्य हस्ते न्यस्तं चूताङ्कुरमेवास्त्रं यस्य स तथोक्तः प्राञ्जलिः सन् । शतमखमिन्द्रमुपतस्थे सङ्गतवान् । सङ्गतिकरणार्थादात्मनेपदम् । अत्र स्वभावोक्तिः `ननमयययुतेयं मालिनी भोगिलाकैः` इति लक्षणात् अन्वयः: अथ स पुष्पधन्वा ललितयोषिद्‌भ्रूलताचारुश्रृङ्गं चापं रतिवलयपदाङ्के कण्ठे आसज्य सहचरमधुहस्तन्यस्तचूताऽङ्कुराऽस्त्रः प्राञ्जलिः (सन्) शतमखम् उपतस्थे ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
अथ
Lemma: अथ
POS: ind
स
Lemma: तद्
POS: pron
ललितयोषिद्भ्रूलताचारुशृङ्गं
Lemma: लल्
POS: 1. Ā.
ललितयोषिद्भ्रूलताचारुशृङ्गं
Lemma: योषित्
POS: f
ललितयोषिद्भ्रूलताचारुशृङ्गं
Lemma: भ्रू
POS: f
ललितयोषिद्भ्रूलताचारुशृङ्गं
Lemma: लता
POS: f
ललितयोषिद्भ्रूलताचारुशृङ्गं
Lemma: चारु
POS: adj
ललितयोषिद्भ्रूलताचारुशृङ्गं
Lemma: शृङ्ग
POS: n
रतिवलयपदाङ्के
Lemma: रति
POS: f
रतिवलयपदाङ्के
Lemma: वलय
POS: mn
रतिवलयपदाङ्के
Lemma: पद
POS: mn
रतिवलयपदाङ्के
Lemma: अङ्क
POS: mn
चापम्
Lemma: चाप
POS: mn
आसज्य
Lemma: आसञ्ज्
POS: 1. Ā.
कण्ठे
Lemma: कण्ठ
POS: m
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
Lemma: सहचर
POS: adj
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
Lemma: मधु
POS: m
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
Lemma: हस्त
POS: mn
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
Lemma: न्यस्
POS: 2. P.
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
Lemma: चूत
POS: m
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
Lemma: अङ्कुर
POS: mn
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
Lemma: अस्त्र
POS: mn
शतमखम्
Lemma: शतमख
POS: m
उपतस्थे
Lemma: उपस्था
POS: 1. Ā. • Verb: उपतस्थे
प्राञ्जलिः
Lemma: प्राञ्जलि
POS: adj
पुष्पधन्वा
Lemma: पुष्पधन्वन्
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 2.64. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.63) All Verses in Chapter 2 Next Verse (KS 3.1) →