तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः । मोक्ष्यते सुरबन्दीनां वेणीर्वीर्यविभूतिभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
तस्येति ॥ तस्य शितिकण्ठस्याष्टमूर्तेरात्मा पुत्रः इत्यर्थः । `आत्मा वै पुत्रनामासि` इति श्रुतेः । वो युष्माकं सेनापतेर्भावः सैनापत्यम् `पत्यन्तपुरोहितादिभ्यो यक्` (पा.5|1|128) इति यक्प्रत्ययः । उपेत्य प्राप्य वीर्यविभूतिभिः शौर्यसंपत्तिभिः सुरवन्दीनां वेणीर्मोक्ष्यते विस्रंसयिष्यति । तारकासुरं हनिष्यतीति भावः
अन्वयः:
तस्य शितिकण्ठस्य आत्मा वः सैनापत्यम् उपेत्य वीर्यविभूतिभिः सुरबन्दीनां वेणीः मोक्ष्यते ।
Morphemic Decomposition & Padaccheda
तस्यात्मा
तद् [pron]
तस्यात्मा
आत्मन् [m]
शितिकण्ठस्य
शितिकण्ठ [mn]
सैनापत्यम्
सैनापत्य [n]
उपेत्य
उपे [2. Ā.]
वः
त्वद् [pron]
मोक्ष्यते
मुच् [6. Ā.]
सुरबन्दीनां
सुर [m]
सुरबन्दीनां
बन्दी [f]
वेणीर्
वेणी [f]
वीर्यविभूतिभिः
वीर्य [n]
वीर्यविभूतिभिः
विभूति [f]