Skip to main content
Search
Ch. 2 KS 2.62
Full Chapter
KS • Chapter 2: Canto 2

KS 2.62

Canonical Ref: KS 2.62
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे । मनस्याहितकर्तव्यास्तेऽपि प्रतिययुर्दिवम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): इतीति ॥ विश्वस्य योनिः कारणम् । `योनिः स्त्रीणां भगस्थाने कारणं तान्त्रिके पणे` इति वैजयन्ती । बिबुधान्सुरानिति व्याहृत्याभिधाय तिरोदधोऽन्तर्हितवान् । ते देवा अपि मनस्याहितं कर्तव्यं यैस्ते तथोक्ताः सन्ता दिवं स्वर्गं ययुः प्रापुः अन्वयः: विश्वयोनिः विबुधान् इति व्याहृत्य तिरोदधे । देवा अपि मनसि आहितकर्तव्याः (सन्तः) दिवं ययुः ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
इति
Lemma: इति
POS: ind
व्याहृत्य
Lemma: व्याहृ
POS: 1. Ā.
विबुधान्
Lemma: विबुध
POS: m
विश्वयोनिस्
Lemma: विश्वयोनि
POS: m
तिरोदधे
Lemma: तिरोधा
POS: 1. P. • Verb: तिरोदधे
मनस्य्
Lemma: मनस्
POS: n
आहितकर्तव्यास्
Lemma: आधा
POS: 3. Ā.
आहितकर्तव्यास्
Lemma: कर्तव्य
POS: n
ते
Lemma: तद्
POS: pron
ऽपि
Lemma: अपि
POS: ind
प्रतिययुर्
Lemma: प्रतिया
POS: 2. P. • Verb: प्रतिययुः
दिवम्
Lemma: दिव्
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 2.62. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.61) All Verses in Chapter 2 Next Verse (KS 2.63) →