Skip to main content
Search
Ch. 2 KS 2.61
Full Chapter
KS • Chapter 2: Canto 2

KS 2.61

Canonical Ref: KS 2.61
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः । मोक्ष्यते सुरबन्दीनां वेणीर्वीर्यविभूतिभिः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्येति ॥ तस्य शितिकण्ठस्याष्टमूर्तेरात्मा पुत्रः इत्यर्थः । `आत्मा वै पुत्रनामासि` इति श्रुतेः । वो युष्माकं सेनापतेर्भावः सैनापत्यम् `पत्यन्तपुरोहितादिभ्यो यक्` (पा.5|1|128) इति यक्प्रत्ययः । उपेत्य प्राप्य वीर्यविभूतिभिः शौर्यसंपत्तिभिः सुरवन्दीनां वेणीर्मोक्ष्यते विस्रंसयिष्यति । तारकासुरं हनिष्यतीति भावः अन्वयः: तस्य शितिकण्ठस्य आत्मा वः सैनापत्यम् उपेत्य वीर्यविभूतिभिः सुरबन्दीनां वेणीः मोक्ष्यते ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तस्यात्मा
Lemma: तद्
POS: pron
तस्यात्मा
Lemma: आत्मन्
POS: m
शितिकण्ठस्य
Lemma: शितिकण्ठ
POS: mn
सैनापत्यम्
Lemma: सैनापत्य
POS: n
उपेत्य
Lemma: उपे
POS: 2. Ā.
वः
Lemma: त्वद्
POS: pron
मोक्ष्यते
Lemma: मुच्
POS: 6. Ā. • Verb: मोक्ष्यते
सुरबन्दीनां
Lemma: सुर
POS: m
सुरबन्दीनां
Lemma: बन्दी
POS: f
वेणीर्
Lemma: वेणी
POS: f
वीर्यविभूतिभिः
Lemma: वीर्य
POS: n
वीर्यविभूतिभिः
Lemma: विभूति
POS: f
Canonical CTS URN Reference
Kumārasambhavam, KS 2.61. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.60) All Verses in Chapter 2 Next Verse (KS 2.62) →