Skip to main content
Search
Full Chapter
KS • Chapter 3: Canto 3

KS 3.9

Canonical Ref: KS 3.9
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
प्रसीद विश्राम्यतु वीर वज्रं शरैर्मदीयैः कतमः सुरारिः । बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): प्रसीदेति ॥ हे वीर, प्रसीद प्रसन्नो भव । वज्रं कुलिशं विश्राम्यतु । उदास्तामित्यर्थः । मदीयैः शरैर्मोधीकृतबाहुवीर्यो विफलीकृतभुजशक्तिः कतमो दैत्यदानवादिषु यः कश्चन सुरारिः । वा बहूनां जातिपरिप्रश्ने डतमच्` इति डतमच्प्रत्ययः । कोपेन स्फुरिताधराभ्यः स्त्रीभ्योऽपि बिभेतु । किमु वक्तव्यं पुंभ्य इत्यर्थः सकृद्भीतः सर्वतो बिभेतीति भावः । `भीत्रार्थानां भयहेतुः` इत्यपादानत्वात्पञ्चमी अन्वयः: हे वीर ! प्रसीद, वज्रं विश्राम्यतु । मदीयैः शरैः मोधीकृतबाहुः वीर्यः कतमः सुराऽरिः कोपस्फुरिताऽधराभ्यः स्त्रीभ्यः अपि बिभेतु ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
प्रसीद
Lemma: प्रसद्
POS: 1. Ā. • Verb: प्रसीद
विश्राम्यतु
Lemma: विश्रम्
POS: 1. Ā. • Verb: विश्राम्यतु
वीर
Lemma: वीर
POS: m
वज्रं
Lemma: वज्र
POS: mn
शरैर्
Lemma: शर
POS: m
मदीयैः
Lemma: मदीय
POS: adj
कतमः
Lemma: कतम
POS: pron
सुरारिः
Lemma: सुर
POS: m
सुरारिः
Lemma: अरि
POS: m
बिभेतु
Lemma: भी
POS: 1. Ā. • Verb: बिभेतु
मोघीकृतबाहुवीर्यः
Lemma: मोघीकृ
POS: 8. Ā.
मोघीकृतबाहुवीर्यः
Lemma: बाहु
POS: mf
मोघीकृतबाहुवीर्यः
Lemma: वीर्य
POS: n
स्त्रीभ्यो
Lemma: स्त्री
POS: f
ऽपि
Lemma: अपि
POS: ind
कोपस्फुरिताधराभ्यः
Lemma: कोप
POS: m
कोपस्फुरिताधराभ्यः
Lemma: स्फुर्
POS: 6. Ā.
कोपस्फुरिताधराभ्यः
Lemma: अधर
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 3.9. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 3.8) All Verses in Chapter 3 Next Verse (KS 3.10) →