Skip to main content
Search
Full Chapter
KS • Chapter 2: Canto 2

KS 2.7

Canonical Ref: KS 2.7
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया । प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स्त्रीपुंसाविति ॥ स्त्री च पुमांश्च स्त्रीपुंसौ । `अचतुर-` इत्यादिनाच्प्रत्ययान्तो निपातः । सिसृक्षया स्रष्टुमिच्छया भिन्नमूर्तेर्द्विधाकृतविग्रहस्य ते तवात्मनो देहस्य भागावात्मभागौ । `आत्मा जावे धृतौ देहे स्वभावे परमात्मानि` इति विश्वः । तावेव भागौ प्रसूतिभाज उत्पत्तिभाजः । सृज्यत इति सर्गस्तस्य । निजसृष्टेरित्यर्थः । माता च पिता च पितरौ । `पिता` `मात्रा` इत्येकशेषः । स्मृतौ । वृद्धैरिति शेषः । अत्र मनु- `द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥` इति अन्वयः: स्त्रीपुंसौ सिसृक्षया भिन्नमूर्तेः ते आत्मभागौ स्तः । तौ एव प्रसूतिभाजः सर्गस्य पितरौ स्मृतौ ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
स्त्रीपुंसाव्
Lemma: स्त्री
POS: f
स्त्रीपुंसाव्
Lemma: पुंस्
POS: m
आत्मभागौ
Lemma: आत्मन्
POS: m
आत्मभागौ
Lemma: भाग
POS: m
ते
Lemma: त्वद्
POS: pron
भिन्नमूर्तेः
Lemma: भिद्
POS: 6. P.
भिन्नमूर्तेः
Lemma: मूर्ति
POS: f
सिसृक्षया
Lemma: सिसृक्षा
POS: f
प्रसूतिभाजः
Lemma: प्रसूति
POS: f
प्रसूतिभाजः
Lemma: भाज्
POS: adj
सर्गस्य
Lemma: सर्ग
POS: m
ताव्
Lemma: तद्
POS: pron
एव
Lemma: एव
POS: ind
पितरौ
Lemma: पितृ
POS: m
स्मृतौ
Lemma: स्मृ
POS: 1. Ā.
Canonical CTS URN Reference
Kumārasambhavam, KS 2.7. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.6) All Verses in Chapter 2 Next Verse (KS 2.8) →