Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 27 of 51 (Verses 30 shown)
शिञ्जानमञ्जुमञ्जीरकाञ्चीसञ्चारचारवः।
रमयन्ति मनः कान्ता नितान्तं योगिनामपि॥ १७४॥
अत्र सौकुमार्यशब्दगुणे समासभूयस्त्वमोजः श्लाघ्यविशेषणयोग उदात्तत्वं च नोल्लिखति। अनुप्रासशब्दालङ्कारे हेतुरर्थालंकारो जातिश्च नोल्लिखति। विस्मयभावे रतिर्मतिश्च नोल्लिखति। विभाव्यमानाश्च सर्व एव प्रतीयन्ते। अपि च
पयोधरतटोत्सङ्गलग्नसन्ध्यातपांशुका।
कस्य कामातुरं चेतो वारुणी न करिष्यति॥ १७५॥
अत्र हेतुसमाध्यलङ्कारयोः श्लेषरूपकालङ्कारौ कान्त्युदात्तत्वगुणयोरोजः— १. नोल्लिखतीत्येवाऽत्रासौ वाक्ययोगः। प्रसादगुणौ आलम्बनविभावोद्दीपनविभावयोर्मतिवितर्कौ च नोल्लिखति। ते तु विभाव्यमानाः प्रतीयन्ते। किंच —
हस्ते लीलाकमलमलकं बालकुन्दानुविद्धं१ नीता लोध्रप्रसवरजसा पाण्डुतामाननश्रीः।
चूडापाशे नवकुरवकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम्॥ १७६॥
अत्र ज्ञापकहेत्वलङ्कारे कारकहेतुर्जातिश्चार्थालङ्कारौ, आवन्त्या रीतिः क्रमरचना च शब्दालङ्कारौ, दीपकक्रमश्लेषहेतूक्तिपर्यायाश्च उभयालङ्कारौ(रा) नोल्लिखन्ति। श्लाघ्यविशेषणयोग उदात्तत्वमिति शब्दगुणे यावदर्थपदता संमितत्वम्, अनिष्ठुराक्षरप्रायता सौकुमार्यमिति शब्दगुणौ, दीप्‍तरसत्वं कान्तिरर्थप्राकट्यं प्रसाद इत्यर्थगुणो, कालविरोधि निष्क्रियमशरीरमिति दोषगुणौ च नोल्लिखन्ति। स्वनिवासवर्णनोत्कर्षे पतिप्रभावोपवर्णनं निवासिजनवैदग्ध्याभिधानं च विभावौ प्रियतमास्थान (?) प्रेयोरसे सर्वोपकरणप्रागुण्यस्मृतिः विलासाद्यभिनन्दनं चानुभावौ प्रियसुहृत्प्ररोचनोत्साहे घनागमनीपविकासस्मृतिरुत्कण्ठेति च व्यभिचारिणौ नोल्लिखन्ति। विभाव्यमानास्तु सर्व एव प्रतीयन्ते। अन्यच्च —
शिखण्डे खण्डेन्दुः शशिदिनकरौ कर्णयुगले गले तारा हारः तरलमुडुचक्रं च कुचयोः।
तटित्काञ्ची सन्ध्या सिचयरुचयः कालि! तदयं तवाकल्पः कल्पव्युपरमविधेयो विजयते॥ १७७॥
अत्रारोहावरोहक्रमो गतिः, श्लाघ्यविशेषणयोग उदात्तत्वमिति शब्दगुणयोर्बन्ध— वैकट्यादयः शब्दगुणाः, दीप्‍तरसत्वं कान्तिरर्थप्राकट्यं प्रसाद इत्यर्थगुणयोः रूढाहङ्कारतौर्जित्यमित्यादयोऽर्थगुणाः, कालादिविरोध्यप्रकृतरसत्वमिति दोषगुणयोः निष्क्रियत्वादयो दोषगुणा नोल्लिखन्ति। वाक्यमुद्रानुप्रासशब्दालङ्कारयोः क्रमरचनादयः शब्दालङ्काराः, जातिहेत्वर्थालङ्कारयोः ज्ञापकहेत्वादयोऽर्थालङ्कारा; समासोक्तिरूप— कोभयालङ्कारयोः समुच्चयोक्त्यादय उभयालङ्काराः नोल्लिखन्ति। प्रेयश्शान्तर— सयोर्भयानकादयो रसाः रौद्रश्रृङ्गाराभासयोर्वीराभासादयः आभासा मतिस्मृतिभाव— योर्हर्षादयश्च भावा नोल्लिखन्ति। विभाव्यमानाश्च ते सर्व एव प्रतीयन्ते।
सोऽयं वाक्यविषयो रसावियोग उक्तः॥
१. द्र. अस्माकं कालिदासग्रन्थावलीगतः पाठः।
प्रबन्धविषय उच्यते— सोऽपि दोषहानेन गुणोपादानेन अलङ्कारसङ्करेण च प्रकाशमानो मनीषिणां मनःप्रकर्षहेतुर्भवति। तत्र
दोषहानमनौचित्यादिपरिहारेण यथा— मायाकैकेयीदशरथाभ्यां रामः प्रवासितो न मातापितृभ्यामिति निर्दोषदशरथे;
राममेव योधयन् रामेण वाली निहतो न सुग्रीवमिति महावीरचरिते;
रुधिरप्रियराक्षसेन दुश्शासनस्य रुधिरं पीतं १न भीमसेनेनेति वेणीसंहारे;
अनङ्गावतारस्य प्रद्युम्नस्यैव जन्मान्तरपत्नी रतिर्मायावती न गुर्वङ्गनेति हरिवंशे;
दुर्वाससो अवध्यानाद् दुष्यन्तः शकुन्तलास्वीकारं विसस्मार, नानवस्थिता— नुरागतयेति शाकुन्तले;
लवणप्रयुक्तराक्षसाक्ष्यां राम उपह्वरे तत्तदभिधाय सीता परित्याजिता न कैकेयीमन्थराभ्यामिति छलितरामे;
दग्धायामपि वासवदत्तायां वैरप्रतिचिकीर्षया पद्मावती मयोढा, सिद्धे च समीहिते तया विना क्षणमपि न जीवामीत्यविज्ञातवासवदत्तासन्निधेर्वत्सराज— स्याग्निप्रवेशाध्यवसायः प्रियाहृदयतो व्यलीकशल्यमुच्चखानेति तापसवत्सराजे;
नीचाक्षः स्वामिकार्यं साधयामीति प्रभुभक्त्या निरपराधामपि प्रेयसीं हित्वा स्वामिकार्यापेक्षया अहमेतावन्ति दिनानि जीवितः, अद्य तु कृतस्वामिकार्य— स्तामेवानुगच्छामीति शिवगणः शूद्रकविनिर्मितां मायामयीं चितां प्रियासमक्षं प्रविवेश, सापि तत्प्रेमापदानदर्शनापह्नुतप्रियव्यलीका तद्वियोगकातरा तत्रैवात्मानं प्रचिक्षेपेति विक्रान्तशूद्रके।
एवमन्यदपि दोषहानमुदाहार्यम्। गुणोपादानं तु वक्ष्यमाणप्रबन्धभेदानां सम्यग्लक्षणयोगेन संविधानकसुसूत्रता; तेष्वेव नगरार्णववर्णनादीनां सन्निवेश— प्राशस्त्यमलङ्कारसङ्कर इति। तदुक्तम्— (रामाभ्युदये प्रस्तावनायाम्)
औचित्यं वचसां प्रकृत्यनुगतं, सर्वत्र पात्रोचिता पुष्टिः स्वावसरे रसस्य च, कथामार्गे न चातिक्रमः।
शुद्धिः प्रस्तुतसंविधानकविधौ, प्रौढिश्च शब्दार्थयोः, विद्वद्भिः परिभाव्यतामवहितैरेतावदेवास्तु नः॥ १७८॥
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →