धृतायुधो यावदहं तावदन्यैः किमायुधैः।
यद्वा न सिद्धमस्त्रेण मम तत् केन सेत्स्यति॥ ६४॥
धीरोदात्ताश्रय ऊर्जस्वी यथा—(काव्याद. २.२९३)
अपकर्ताहमस्मीति मा ते मनसि भूद् भयम्।
विमुखेषु न मे खङ्गः प्रहर्तुं जातु वाञ्छति॥ ६५॥
अत्र च शमप्रकृतिः शान्तः, स्नेहप्रकृतिः प्रेयान्, गर्वप्रकृतिरुद्धतः, अहङ्कारप्रकृतिः पुनरूर्जस्वीति शृङ्गारादिवदेतेष्वपि विभावानुभावव्यभिचारिसंयोगो द्रष्टव्यः।
अन्ये त्वाहुः — सर्व एव रत्यादयो विभावानुभावव्यभिचारिसंयोगादुत्पद्यमानाः भूमानमापन्ना रसीभवन्ति। तथा हि— (रुद्रटा. १२.४)
रसनाद् रसत्वमेषां मधुरादीनामिवोक्तमाचार्यैः।
निर्वेदादिष्वपि तत् प्रकाममस्तीति तेऽपि रसाः॥ ६६॥
सर्वेषां च तुल्ये रसत्वे रत्यादीनामेव परप्रकर्षगामिनां शृङ्गारवीरादिव्यपदेश इति न घटते। तथात्वे वा नाममात्रं भिद्यते। तदुक्तम्—
वीराद्भुतादिषु च येह रसप्रसिद्धिः सिद्धा कुतोऽपि वटयक्षवदाविभाति।
लोके गतानुगतिकत्ववशादुपेता मेतां निवर्तयितुमेष परिश्रमो नः॥ ६७॥
यदि च रत्यादयः प्रकर्षगामिनो भावा एव रसाः, कथमुच्यते भावेभ्यो रसा इति ?
रसेभ्यो भावा इत्यप्ययुक्तम्। न हि बहवो रसाः, अपि त्वेक एव शृङ्गारो रस इत्यग्रतोऽपि प्रबन्धेन प्रतिपादयिष्यते।
यच्चोक्तं रसेभ्यश्च रसा इति, तत्र यद्यालम्बनविभावभूतेभ्य इति मतं, तदा
शृङ्गारात् तु भवेद्धास्यो रौद्रात् तु करुणो रसः।
वीराच्चैवाद्भुतो नाम बीभत्सात् तु भयानकः॥ ६८॥
(नाशा. ६.३८)
इति नियमो न घटते,
यतः शृङ्गारादन्यतोऽपि हास्य उत्पद्यमानो दृश्यते, यथा—
हस्तालम्बितमक्षसूत्रवलयं कर्णावतंसीकृतं स्त्रस्तं भ्रूयुगमुन्नमय्य रचितं यज्ञोपवीतेन च।
सन्नद्धा जघने च वल्कलपटी पाणिश्च धत्ते धनुः दृष्टं भो जनकस्य योगिन इदं दान्तं विरक्तं मनः॥ ६९॥
(बारा.१.५३)
शृङ्गारादपि न दृश्यते, यथा—(गास. १.६०)
चिन्ताणिअदइअसमागमम्मि कअमण्णुआइँ भरिऊण।
सुण्णं कलहाअन्ती सहीहि रुण्णा ण ओहसिआ॥ ७०॥
(चिन्तानीतदयितसमागमे कृतमन्युकानि स्मृत्वा।
शून्यं कलहायमाना सखीभी रुदिता न उपहसिता॥)
रौद्रादन्यतोऽपि करुणो दृश्यते, यथा—
आर्द्रं नागाजिनमवयवग्रन्थिमद् बिभ्रदंसे रूपं प्रावृड्घनरुचि महाभैरवं दर्शयित्वा।