Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 14 of 51 (Verses 30 shown)
न रौद्रकर्म करुणः कारणं करुणस्य तत्।
एतेन वीरकर्मापि न भवेदद्भ‍ुतो रसः॥ ८०॥
हेतुत्वं तु तदुत्पत्तौ तस्यापि न निवार्यते।
बीभत्सदर्शनाद् यः स्यात् स भवेत् तु भयानकः॥
इत्यालम्बनहेतुभ्यो विभावेभ्यो न भिद्यते॥ ८२॥
अतो यत्किंचिदेतद् 'भावेभ्यो रसा, रसेभ्यो भावा, रसेभ्यश्च रसा' इति।
अप्रातिकूलिकतया मनसो मुदादे— र्यस्संविदोऽनुभवहेतुरिहाभिमानः ।
ज्ञेयो रसः स रसनीयतयाऽऽत्मशक्तेः(/रक्‍तेः)१ रत्यादिभूमनि पुनर्वितथा रसोक्तिः॥ ८३॥
एतेन रूढाहङ्कारता२ रसस्य पूर्वा कोटिः। रत्यादीनामेकोनपञ्चाशतोऽपि विभावानुभावव्यभिचारिसंयोगात् परप्रकर्षाधिगमे रसव्यपदेशार्हता रसस्यैव मध्यमावस्था। 'प्रेयः प्रियतराख्यानम्' इत्युपलक्षणेन यथा रतेः प्रेमरूपेण परिणतिस्तथा भावान्तराणामपि परमपरिपाके प्रेमरूपेण परिणतौ रसैकायनमिति रसस्य परमा काष्ठेति प्रतिष्ठितं भवति। तथा हि — यथोर्जस्विन्यपकर्ताहमिति यत्ते चेतसि भयं, न मे खङ्गः पराङ्मुखेषु कदाचिदपि प्रहर्तुमुत्सहत इति रूढोऽहङ्कारः प्रतीयते, सैषावन्ती मयात्रैव जन्मनि लब्धेति धिक् ते वृथाप्रतिज्ञो मानपरिग्रह इति, उर्वीविजयाद्यकृत्वा कथं पार्थिवो भवेयमिति, न मयेदृशाः शाखिनः क्‍वचिदपि दृष्टा इति, अनेन मे द्रौपदी केशेष्वाकृष्टेति, धन्यो मघवा यस्यैतदायुधमिति, सा मे देवी चितामध्यास्त इति, धिक् कौणपाः शोणितमान्त्रभूषणाः पिबन्तीति, अस्ति मे सन्तोषो मनस इति, यथेयं मे प्रिया तथाहमप्यस्या यतो मदनुकूलमेवैषापि चेष्टत इति, मयि धृतायुधे किमायुधान्तरैरिति सर्वत्रैवाहङ्कारः प्रतीयते।
कथं पुनर्विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः ?
उच्यते, यथेन्दुसन्निधेर्गण्डकः स्यन्दते, यथार्कसन्निधेस्सूर्यकान्तो ज्वलति, यथा कर्पूरसन्निधेः स्फटिको विलीयते तथा तेभ्यस्तेभ्य आलम्बनविभावेभ्यस्तत्तदाकार— परिणतेन्द्रियबुद्ध‍युपाधियोगिनोऽभिमानिमनसस्ते ते रतिक्रोधशोकादयो भावाः समुत्पद्यन्ते। ते रत्यादयो यथा—(मामा. ३.५)
आश्चर्यमुत्पलदृशो वदनामलेन्दुसान्निध्यतो मम मुहुर्जडिमानमेत्य।
जात्येन चन्द्रमणिनेव महीधरस्य सन्धार्यते द्रवमयो मनसो विकारः॥ ८४॥
१. द्र. अत्रैव १.८ ; ११.७ २. अहमित्येवाहङ्कारः यथा ओमित्येव ओङ्कार इंति 'कारः' स्वार्थक एवेति नात्र गर्वदोषः।
तेनाथ नाथ दुरुदाहरणातपेन सौम्यापि नाम परुषत्वमभिप्रपन्ना।
जज्वाल तीक्ष्णविशदाः सहसोद्‌गि‍रन्ती वागर्चिषस्तपनकान्तशिलेव सीता॥ ८५॥
अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथावृत्तं पापैर्व्यथयति यथा क्षालितमपि।
जनस्थाने शून्ये विशदकरुणैरार्यचरितै— रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्॥ ८६॥
अथ यथेन्दूदये समुद्रः क्षुभ्यति, यथाऽपथ्यसेवया व्याधिरभिवर्धते, यथानार्यसन्निधेः साधुः सुतरां दुःखाकरोति, तथा तेभ्यस्तेभ्य उद्दीपनविभावेभ्य— स्तत्तदनुभवसंस्कारयोगिनो मनसस्तत्तद्‍भावाभिवृद्धये ते ते विकारा उपजायन्ते। ते तत्क्षोभे यथा—(रघु. ८.४३)
विललाप स बाष्पगद्‍गदं सहजामप्यपहाय धीरताम्।
अभितप्‍तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु॥ ८७॥
तमुदीक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान च।
स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते॥ ८८॥
तत्प्रातिकूल्ये यथा—(विक्रमो. २.६)
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →