शोकप्रसादविद्रवशापोत्सर्गप्रसादनक्रोधाः।
उद्वाहो३ऽद्भुतदर्शनमङ्के प्रत्यक्षजानि स्युः॥ १८७॥
युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव।
प्रत्यक्षाणि तु नाङ्के प्रवेशकैः संविधेयानि॥ १८८॥
१. ना.शा. काशीसं.। २. भोजमतेन लक्षणानि चतुष्षष्टिर्भवन्ति। ३. उद्वाहो = उत्साहो
भावा रसाश्च यस्मिन्नारोहन्त्यङ्कवद् भवेत् सोऽङ्कः।
नानाविधानयुक्तो लक्ष्मेव च यः प्रबन्धस्य॥ १८९॥
एकदिवसप्रयोज्यः कार्यस्त्वङ्कोऽर्थबीजमधिकृत्य।
आवश्यककार्याणामविरोधेन प्रबन्धेषु॥ १९०॥
एकाङ्केन कदाचिद् बहूनि कार्याणि योजयेद् धीमान्।
आवश्यकाविरोधेन तत्र कार्याणि कार्याणि॥ १९१॥
ज्ञात्वा दिवसावस्थां क्षणयाममुहूर्तलक्षणोपेताम्।
विभजेत् कार्यं मतिमान् पृथक्पृथक् सर्वमङ्केषु॥ १९२॥
रङ्गं तु ये प्रविष्टास्सर्वेषां भवति तत्र निष्क्रामः।
बीजार्थयुक्तियुक्तं कृत्वा कार्यं यथार्थरसम्॥ १९३॥
दिवसावसानकार्यं यद्यङ्के नोपपद्यते सर्वम्।
अङ्कच्छेदं कृत्वा प्रवेशकैस्तद् विधातव्यम्॥ १९४॥
सन्निहितनायकोऽङ्कः कर्तव्यो नाटके प्रकरणे वा।
परिजनकथानुबन्धः प्रवेशकस्तत्र विज्ञेयः॥ १९५॥
अङ्कच्छेदं कृत्वा मासकृतं वर्षसञ्चितं वापि।
तत् सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित्॥ १९६॥
यदि किञ्चित् कार्यवशाद् गच्छति पुरुषः प्रकृष्टमध्वानम्।
तत्राप्यङ्कच्छेदः कर्तव्यः पूर्वतन्त्रज्ञैः॥ १९७॥
अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम्।
प्रकरणनाटकविषये प्रवेशकस्संविधातव्यः॥ १९८॥
नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः।
प्राकृतभाषाचारः प्रयोगमासाद्य कर्तव्यः॥ १९९॥
विटमुनिदैवतपुरुषैः कञ्चुकिभिश्चार्थयुक्तिमासाद्य।
संस्कृतवाग्भिरपीत्थं प्रवेशकः संविधातव्यः॥ २००॥
कालोत्थानगतिरस—व्यत्यासारम्भकामविषयाणाम्।