Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 41 of 51 (Verses 30 shown)
त एते गुणा अलङ्काराश्चाविशेषेण। लक्षणं तु त्रिविधमपि विशेषेण व्याख्यायते। तत्र— महाकाव्यादौ यथासम्भवम्, असंक्षिप्‍तग्रन्थत्वमविषमबन्धत्वं, श्रव्यवृत्तत्वम्, अनतिविस्तीर्णसर्गादित्वम्, सुश्लिष्टसन्धित्वं चेति शब्दगुणाः।
चतुर्वर्गसुफलायत्तत्वं, चतुरोदात्तनायकत्वं, रसभावनिरन्तरत्वं, विधिनिषेधव्यु— त्पादकत्वं, सुसूत्रसंविधानकत्वमित्यर्थगुणाः।
रसानुरूपसन्दर्भत्वं पात्रानुरूपभाषत्वमर्थानुरूपच्छन्दस्त्वं समस्तलोकरञ्जकत्वं सदलङ्कारवाक्यत्वमित्युभयगुणाः;
नमस्काराद्युपक्रमत्वं, संबन्धादिमदादिवाक्यत्वं, दुष्कर(सम)संस्कृतादिवाक्यत्वं, भिन्नवृत्तसर्गान्तत्वं, कविभावाङ्कितसमाप्‍तित्वमिति शब्दालङ्काराः।
नगराश्रमशैलसैन्यावासार्णवादिवर्णनम्, ऋतुरात्रिन्दिवार्कास्तमयचन्द्रोदयादि— वर्णनं, नायकनायिकाकुमारसहायवाहनादिवर्णनम्, मन्त्रदूतप्रयाणसङ्ग्रामाभ्युदया— दिवर्णनं, वनविहारजलक्रीडामधुपानमानापगमरतोत्सवादिवर्णनमित्यर्थालङ्काराः।
बीजबिन्दुपताकाप्रकरीकार्योपकल्पनं, गर्भाङ्कचूलिकाङ्कावतारविष्कम्भक— प्रवेशकविधानं, देशकालपात्रचेष्टाकथान्तरानुषञ्जनं, द्विसन्धानं, मार्गद्वयानुवर्तन— मित्युभयालङ्काराः।
तत्रासङ्क्षिप्‍तग्रन्थत्वमित्यनेन ग्रन्थगौरवमाचक्षाणः कथारसविच्छेदशङ्किनां मनांस्यावर्जयति।
अविषमबन्धत्वमित्यनेन शब्दसन्दर्भवेदिनां मनोमुदमादधाति।
श्रव्यवृत्तत्वमित्यनेन यद्यपि पद्यभेदत्वान्महाकाव्यादेः सर्वापि चतुष्पदी समाकृष्टा, तथापि यान्येव श्रुतिसुखमुपजनयन्ति वृत्तानि तान्येव निबन्धनीयानीति दर्शयन् श्रोतृजनं प्रोत्साहयति।
अनतिविस्तीर्णसर्गादित्वमित्यनेन ग्रन्थविस्तरभीरूणां चित्तमाकर्षयति। सुश्लिष्टसन्धित्वमित्यनेन तु सर्गादीनां परस्परमेकवाक्यतया महावाक्यात्मकस्य प्रबन्धस्योपकारित्वं दर्शयति।
चतुर्वर्गफलायत्तत्वमित्यनेन चत्वारो वर्गा धर्मार्थकाममोक्षाः, त एव व्यस्ताः समस्ता वा फलं, तत्साधनोपायविषयं महाकाव्यादीति ज्ञापयन् मुक्तकादिभ्यो भेदमाचष्टे।
चतुरोदात्तनायकत्वमित्यनेन कथाशरीरव्यापिनो नायकस्य धर्मार्थकाममोक्षेषु वैचक्षण्यमभिदधान आशयविभूत्योरप्युत्कर्षमभिदधाति।
रसभावनिरन्तरत्वमित्यनेन रसग्रहणेनापि तत्कारणभूतानां भावानां परिग्रहे पृथग्भावग्रहणेन रसभावानां परस्परं कार्यकारणभावमभिदधद् रसेभ्यो भावा भावेभ्यो रसा रसेभ्यश्च रसा इति नैरन्तर्यस्य, रसभावबहुत्वस्यान्वयेन भोजनस्येवैकरसस्य प्रबन्धस्यापि वैरस्यमपाकरोति।
विधिनिषेधव्युत्पादकत्वेन तु गुणवतो नायकस्योत्कर्षप्रकाशनेन दोषवतश्चोच्छेदप्रदर्शनेन जिगीषुणा गुणवतैव भाव्यं, न दोषवतेति व्युत्पादयति।
सुसूत्रसंविधानकत्वमित्यनेन प्रोक्तलक्षणा वक्ष्यमाणलक्षणाश्च पदार्थास्तथा निबन्धनीयाः, यथा प्रबन्धस्य शोभायै भवन्तीति कवीन् शिक्षयति।
रसानुरूपसन्दर्भत्वमित्यनेन रतिप्रकर्षे कोमल उत्साहप्रकर्षे प्रौढः क्रोधप्रकर्षे कठोरः शोकप्रकर्षे मृदुः विस्मयप्रकर्षे तु स्फुटः शब्दसन्दर्भो विरचनीय इत्युपदिशन् 'नैकमोजः प्रसादो वा रसभावविदः कवेः' (माघ. २.८३) इति ख्यापयति।
पात्रानुरूपभाषत्वमित्यनेन उत्तमपात्राणि संस्कृतेन १उत्तमाधमानि प्राकृतेन, मध्यमानि शौरसेन्या जघन्यान्यपभ्रंशेन तदपराणि मागधिकया भाषन्त इति ज्ञापयन् भिन्नभाषेषु भाषाचित्राणामवकाशं ददाति।
१. चेट्याद्यपेक्षयोत्तमत्वं नायकाद्यपेक्षया चाधमत्वमिति राजमहिष्यादयोऽत्र ग्राह्याः उत्तमेष्वधमानीति विगृह्य।
अर्थानुरूपच्छन्दस्त्वमित्यनेन शृङ्गारे द्रुतविलम्बितादयो, वीरे वसन्ततिल— कादयः, करुणे वैतालीयादयः, रौद्रे स्रग्धरादयः, सर्वत्र शार्दूलविक्रीडितादयो निबन्धनीया इत्युपदिशति।
समस्तलोकरञ्जकत्वमित्यनेन अलौकिकतां परिहरन् कीर्त्तिप्रीतिनिबन्धनस्य प्रबन्धस्य लोके प्रतिष्ठया कवेः प्रयासवैयर्थ्यमपाकरोति।
सदलङ्कारवाक्यत्वमित्यनेन तु यद्यप्युपात्तलक्षणानां शब्दार्थोभयगुणानां स्वरूपसौन्दर्येणैव काव्यशोभाकरत्वं तथाप्यलङ्कारवत्तैवैनं भारमुद्वोढुमलमित्येतदुपर्युप— देशेनोपपादयति।
तेऽमी शब्दार्थोभयगुणा महाकाव्येषु रसावियोगहेतवो भवन्ति।
तत्र नमस्काराद्युपक्रमत्वमित्यनेन नमस्कारः स्तुतिराशीर्वस्तुनिर्देशो वस्तूपक्षेप इत्युपलक्ष्यन्ते। तत्र
नमस्तुङ्गशिरश्‍चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे॥ ३५७॥
स्तुतिर्यथा रघुवंशे—(रघु.१.१)
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥ ३५८॥
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →