Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 26 of 51 (Verses 30 shown)
तीए दंसणसुहए पणअ-क्खलण-जणिओ मुहम्मि मणहरे।
रोसो वि हरइ हिअअं मअपंको व्व मअलंछणम्मि णिसण्णो॥ १६९॥
(तस्या दर्शनसुभगे प्रणयस्खलनजनितो मुखे मनोहरे।
रोषोऽपि हरति हृदयं मदपङ्क इव मृगलाञ्छने निषण्णः॥)
अत्र हेतूपमातिरस्कारेण रसवतो हरेर्वचसि वागारम्भरूपे रुक्मिणीदत्त— पारिजातमञ्जरीविलोकनप्रभवं सत्यभामाया रोषभावरामणीयकं प्राधान्येन प्रतीयते।
कह मा झिज्जउ मज्झो इमीअ कंदोट्ठदलसरिच्छेहिं।
अच्छीहिं जो ण दीसइ घण-थणहर-रुद्ध-पसरेहिं॥ १७०॥
(कथं मा क्षीयतां मध्य एतस्या कन्दोष्ठ/नीलोत्पल—दलसदृशाभ्याम्।
अक्षिभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम्॥)
अत्र हेतूपमोत्प्रेक्षासमाधितिरस्कारेण कस्यचिदनवाप्‍तदयिताप्रत्यभियोगा— भिमानसुखस्य सुभगमानिनः प्रतिनायकादेः प्रत्यहं सीदतः रसाभासवागारम्भः प्राधान्येन प्रतीयते।
मा गर्वमुद्वह कपोलतले चकास्ति ॰॥ १७१॥ (पृ. ५३५ H.O.S.)
अत्राक्षेपहेत्वहेतुपर्यायोक्तिभ्यः प्रकृष्टरतिरसप्रसवः प्रियप्रेमाभिमानविकत्थनायाः प्रियवयस्यायाः पुरस्तात् स्वकान्तप्रेमनिवेदनापरः वेपथुव्यभिचारसूचको वागारम्भः प्राधान्येन प्रतीयते।
एवमियमनेकप्रकारा संसृष्टिर्गुणरसालङ्कारसंकरप्रभवाभिमन्तव्या। तत्रापि प्रधानाङ्गभावेन समकक्ष्यतया च व्यक्ताव्यक्तोभयात्मकरूपायाः तिलतण्डुलक्षीर— जलच्छायादर्शकादयो भेदा यथायोगमवगन्तव्याः।
उक्तेष्वेवान्तर्भावात्। तद्यथा—अर्थोभयालङ्कारसङ्कराभिधाने 'खं वस्ते' इति 'चर्चां पारयति' इति विभक्तिमुद्रा 'कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलम्' इति पदमुद्रा च शब्दालङ्कारावपि संकीर्यमाणौ प्रतीयेते।
किं पुनरमी सङ्करा द्वयोर्बहूनामपि भवन्तीति?
नन्विदानीमेवोक्तं बहूनामपि भवन्तीति? द्वयोर्द्वयोः सर्वप्रकारैरप्युदाहृतत्वाद् वाक्ये च गुणरसयोगस्य नित्यत्वादुल्लेखवन्त एव सङ्करा गृह्यन्ते, नानुल्लेखवन्तः।
उद्‍घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम्।
कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम्॥ १७२॥
अत्र श्लाघ्यविशेषणयोग उदात्तत्वमिति शब्दगुणे अर्थप्राकट्यं प्रसादः, विशेष्यानुपादानादसम्पूर्णवाक्यता नेयत्वमिति दोषगुणश्च नोल्लिखति, विभाव्यमानस्तु प्रतीयते। ज्ञापकहेत्वर्थालङ्कारे 'तासां त्व प्रभव' इति कारकहेतुरर्थालङ्कारः क्रमरचनेति शब्दालङ्कार १नोल्लिखति विभाव्यमानस्तु प्रतीयते। प्रेयसि रसे विस्मयप्रकर्षो हर्षोत्कर्षं (र्षश्च?) नोल्लिखति विभाव्यमानस्तु प्रतीयते। एवं
किं येन सृजसि व्यक्तमुत येन बिभर्षि तत्।
अथ यस्तस्य संहर्ता भागः कतम एष ते॥ १७३॥
अत्र वितर्कालङ्कारे कारकहेतुः क्रमरचना च नोल्लिखति, प्रसादार्थगुणे सुशब्दता बन्धवैकट्यं च नोल्लिखति, मतिप्रकर्षे प्रीत्युत्कर्षो वितर्कश्च नोल्लिखति। विभाव्यमानास्तु सर्व एव प्रतीयन्ते। तथा
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →