Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 44 of 51 (Verses 30 shown)
कविभावाङ्कितसमाप्‍तिवाक्यत्वमित्यनेन 'स्वाभिप्रायाङ्कता स्वनामाङ्कता इष्टनामाङ्कता, मङ्गलाङ्कता, आशंसाङ्कता' च संगृह्यन्ते। तेषु —
अभिप्रायाङ्कता यथा धैर्यमाढ्यराजस्य, उत्साहः सर्वसेनस्य, अनुरागः प्रवरसेनस्येति।
स्वनामाङ्कता यथा स्वप्रबन्धेषु गोविन्दचतुर्मुखादीनां, यथा च राजशेखरस्य हरविलासे।
इष्टनामाङ्कता यथा लक्ष्म्यङ्कता किराते भारवेः, श्रयङ्कता शिशुपालवधे माघस्य, चतुर्मुख—गोविन्द—चन्द्रशेखरेष्टदेवतानामाङ्कता च पूर्वोक्तेषु पूर्वोक्तानामिति।
मङ्गलाङ्कता यथा— अभ्युदयः कृष्णचरिते, जय उषाहरणे, आनन्दः पञ्चशिखशूद्रककथायामिति।
आशंसा(ङ्कता) धर्मार्थकाममोक्षविषया। तासु
धर्मविषया यथा उत्तररामचरिते—(उ.रा.च. ७.२१)
पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि येयं कथा
मङ्गल्या च मनोहरा च जगतां मातेव गङ्गेव च।
तामेतां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः
शब्दब्रह्मविदः कवेः परिणतप्रज्ञस्य वाणीमपि॥ ३७४॥
अर्थविषया यथा—(विक्रमो. ५.२४)
परस्परविरोधिन्योरेकसंश्रयदुर्लभम् ।
संगतं श्रीसरस्वत्योर्भूतयेऽस्तु सतां भुवि॥ ३७५॥
मम हृदयमशङ्कितव्यलीकं समसुखदुःखमजातविप्रयोगम्।
अनुभवतु मुदः सदैव यूनां मिथुनमभीष्टतमास्तव प्रसादात्॥ ३७६॥
प्रवर्ततां प्रकृतिहिताय पार्थिवः, सरस्वती श्रुतिमहतां महीयताम्।
ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः॥ ३७७॥
एतेनान्यदपि व्याख्यातम्। तद्यथा—
यावल्लीलावतीनामनणुमणिरणत्किङ्किणीक्‍वाणकूजत्— काञ्चीदामोपनद्धाः पृथुजघनतटीः पञ्चबाणोऽधिशेते।
यावच्च भ्रूविलासस्सकलजनमनोहारिणः सुन्दरीणां तस्यैवास्त्रीभवन्ति त्रिभुवनविजये तावदेवास्तु कीर्त्तिः॥ ३७८॥
नगराश्रमशैलसैन्यावासार्णववर्णनमित्यनेन अर्थालङ्कारेषु देशप्रशंसामुपदिशति। तत्र —
नगरवर्णनं यथा सेतुबन्ध—हरिविजय—शिशुपालवध—कुमारसम्भवादौ।
आश्रमवर्णनं यथा रघुवंश—किरातार्जुनीय—कादम्बरी—शाकुन्तलादौ।
शैलवर्णनं यथा किरातार्जुनीय—शिशुपालवध—सेतुबन्ध—हरिविजयादौ।
सैन्यावासवर्णनं यथा शिशुपालवध—किरातार्जुनीय—रावणविजय—रघुवंशादौ।
अर्णववर्णनं यथा सेतुबन्ध—हरिविजय—रघुवंशादौ।
ऋतुरात्रिन्दिवार्कास्तमयचन्द्रोदयादिवर्णनमित्यनेन कालावस्थोपवर्णनं लक्षयति। तत्र
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →