(शेषपदार्थः)
कः पुनरयं शेष:? किं कारकेभ्योऽन्यः, उत कारकाणामविवक्षेति?
किं चातः?
यदि कारकेभ्योऽन्यः शेषः, स नास्ति, सर्वत्र क्रियाकारकसम्बन्धस्य भावात्। यथा राज्ञः पुरुष इति राजा पुरुषं बिभर्ति इति कर्तृकर्मणोर्भरणक्रियाकृतः सम्बन्धः, पितुः पुत्र इति पितापुत्रयोः जननकृतः सम्बन्धः। वृक्षस्य शाखेति वृक्षे शाखा शाखासु वा वृक्षस्तिष्ठतीति कर्त्रधिकरणयोः स्थितिक्रियाजनितः संबन्धो भवति।
अस्तु तर्हि कारकाणामविवक्षा शेषः।
तन्न, सतः अविवक्षाऽभावात्। न हि सन् घटः अविवक्षातः असन् भवति।
यथेच्छसि तथास्तु।
अस्तु तावत्कारकेभ्योऽन्यः शेषः।
ननु चोक्तं कारकाणां सर्वत्र भावान्न ततोऽन्यः कश्चिदस्ति शेष इति?
अस्त्येवेति ब्रूमः।
यदा तावत्कारकाधिकरणेषु क्रियाकारकसम्बन्धः सम्बन्धान्तरं जनयति तदा भवति सम्बन्धः कारकेभ्योऽन्यः। तथा हि — 'राज्ञः पुरुष इत्यत्र कर्तृकर्मणोः भरणक्रियाकृतेन जन्यजनकलक्षणः, वृक्षस्य शाखेत्यत्र स्थितिक्रियाकृतेनावयवा— वयविलक्षण' इति, तत्र षष्ठी भविष्यति।
एवमन्येऽप्यश्रूयमाणक्रियापदाः षष्ठ्यर्थाः समुन्नेयाः। श्रूयमाणक्रियापदाः खल्वपि यथा नटस्य शृणोति, न ग्रन्थिकस्येति सम्बन्धिश्रवणं षष्ठ्यर्थः प्रतीयते। न माषाणामश्नीयादिति प्रतिषेधो गम्यते। 'न ते सुखस्य जानन्ति ये न वत्स्यन्ति नन्दने' इति सुखसंबन्धितया ज्ञानप्रतिषेधोऽवधार्यते', एवमिह (आक्षिपेति पद्ये) दुष्करो मुखश्रिय आक्षेपः।
श्रूयमाणक्रियापदाः षष्ठ्यर्थाः समुन्नेयाः, कोशदण्डसमग्रत्वात् सुकरत्वं वाक्यार्थत्वेनावबोधयन्नरविन्दानां संबन्धितया न शेषलक्षणां षष्ठीं विघ्नयति इति। तदेतस्मिन् दर्शन इदमुक्तम्— (वाप. ३.७.१५६)
सम्बन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः।
श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते॥ १४॥
तथा हि— (वाप. २.१९७)
जनयित्वा क्रिया काचित् सम्बन्धं विनिवर्तते।
श्रूयमाणे क्रियाशब्दे सम्बन्धो जायते क्वचित्॥ १५॥
एवं कारकेभ्योऽन्यः शेष इति दर्शने किमेषामस्ति दुष्करमिति न षष्ठ्यनुपपत्तिः। अथवा पुनरस्तु कारकाणामविवक्षा शेषः।
ननु चोक्तं सतः कथमविवक्षा?
सतोऽप्यविवक्षा दृश्यते। यथा— अनुदरा कन्या, अलोमिका एडकेति।
असतोऽपि विवक्षा यथा— विन्ध्यो वर्धितकः, समुद्रः कुण्डिकेति।
एवमिह किमेषामस्ति दुष्करमिति सतोऽपि कर्तुरविवक्षायां न तृतीया, अपि (तु) शेषषष्ठ्येव।
यदि तर्हि श्रूयमाणक्रियापदोऽपि कारकेभ्योऽन्यः कारकविवक्षा वा शेषः, किमर्थं 'ज्ञोऽविदर्थस्य करणे' इत्येवमादिः षष्ठीविधानार्थः सूत्रप्रबन्धः पाणिनेः?
न; तस्य अन्यार्थत्वात् समासप्रतिषेधार्थः स वार्त्तिककृता व्याख्यातः 'प्रतिपदविधाना च षष्ठी न समस्यत' (२.२.१०) इति। अन्यैरप्युक्तम्—
१कारकैर्व्यपदिष्टे च श्रूयमाणक्रियापदे।
शेषे प्रोक्ता पुनः षष्ठी२ समासस्य निवृत्तये॥ १६॥
(वाप. ३.७.१५९)
एवमियमुपमाश्लेषार्थान्तरन्यासानामुपकार्योपकारितया प्रधानगुणभावेन संसृष्टिः। युक्तमिदम्। अयुक्तं तु तुल्यकक्ष्यतयेति।
वाक्ये पदार्थानां समकक्ष्यता प्रधानानां वा भवेदप्रधानानां वा?