Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 1 of 51 (Verses 30 shown)
शृङ्गारप्रकाशे एकादशः प्रकाशः
रसावियोगप्रकाशनप्रकाशो नाम
निर्दोषस्य गुणवतोऽलङ्कृतस्य च काव्यशरीरस्य कामिनीशरीरस्येव शोभातिशयनिष्पत्तौ रसावियोग एव प्रकृष्ट उपायो गीयते। यतः,
कल्या मूर्तिः कुलममलिनं यौवनं रूपसम्पत् सौभाग्यर्द्धिः प्रियवचनता शीलवैदग्ध्ययोगः।
शालीनत्वं विनयपरतेत्यङ्गनाभूषणं यत् तत् प्रेमार्द्रं प्रणयिनि मनो नास्ति चेन्नास्ति किञ्चित्॥१॥
अलङ्कृताप्यन्वयशीलभूषणैर्न शोभते मां प्रति तावदङ्गना।
बिभर्ति यावत् प्रमदा समागमे न शूरभार्यादृतगर्वितं शिरः॥ २॥
रसं त्विह प्रेमाणमेवामनन्ति, सर्वेषामपि हि रत्यादिप्रकर्षाणां रतिप्रियो रणप्रियो अमर्षप्रियः परिहासप्रिय इति प्रेमण्येव पर्यवसानात्।
अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया।
स हि स्‍नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति॥ ३॥ (उराच. ५.१७)
यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत्प्रियं यत्करोति सा॥ ४॥
अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत् तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥ ५॥
दुक्खं दन्तो वि सुहं जणेइ जो जस्स वल्लहो होइ।
दइअ-णह-दूमिआण वि वड्‍ढइ त्थणआण रोमञ्चो॥ ६॥
(दुःखं दददपि सुखं जनयति यो यस्य वल्लभो भवति।
दयितनखदूयमानयोरपि वर्धते स्तनयो रोमाञ्चः॥)
अप्रातिकूलिकतया मनसो मुदादे— र्यस्संविदोऽनुभवहेतुरिहाभिमानः।
ज्ञेयो रसः स रसनीयतयाऽऽत्मशक्ते(/रक्‍तेः)१ रत्यादिभूमनि पुनर्वितथा रसोक्तिः॥ ७॥
ननु 'इदानीमेवोक्तं रतिप्रियो रणप्रियोऽमर्षप्रियः परिहासप्रिय इति रत्यादिप्रकर्षाणां प्रेमण्येव पर्यवसानात् रसमिह प्रेमाणमामनन्ती'ति तत् कथमुच्यते रत्यादिभूमनि पुनर्वितथा, रसोक्तिरिति? उच्यते, न रत्यादिभूमा रसः। किं तर्हि? शृङ्गारः।
शृङ्गारो हि नाम विशिष्टेष्टदृष्टचेष्टाभिव्यञ्जकानाम् आत्मगुणसम्पदामुत्कर्षबीजं बुद्धिसुखदुःखेच्छाद्वेषप्रयत्‍नसंस्काराद्यतिशयहेतुरात्मनोऽहङ्कारगुणविशेषः सचेतसा रस्यमानो रस इत्युच्यते। यदस्तित्वे रसिकोऽन्यथात्वे नीरस इति॥ ८॥
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →