१. रसाभास इत्यर्थः — रे. २. अत्रैव द्र. पृ. ६५८
(१. वाक्यविषयः रसावियोगः)
वाक्यविषयोऽश्लीलामङ्गलघृणावदर्थं ग्राम्यमित्यादिदोषहानेन, दीप्तरसत्वं कान्तिरित्यादिगुणोपादानेन कैशिकीवैदर्भ्याद्यलङ्कारयोगेन च यद्यपि प्रसङ्गतस्तन्त्रयुक्त्या तत्रतत्रोपवर्णितस्तथापि गुणालङ्कारसन्निवेशविशेषजन्यत्वान्नानालङ्कारसंसृष्टावेव प्रकृष्टत्वं लभते।
प्रायेण हि गुणानामिव शब्दार्थोभयालङ्काराणामनुप्रासजातिरूपकादीनां काव्यशरीरेषु कामिनीशरीरेष्विव कटककेयूरकुण्डलादीनां केवलानामदर्शनात् संसृष्टिरेव प्रकृष्टं भूषणमवधार्यते। ततश्च—
भोजने मधुराम्ललवणषाडवानां,
वेष इव वस्त्रानुलेपनमाल्यविभूषणानां,
धूप इव चन्दनागरुकर्पूरसिद्धकानां,
सङ्गीत इव नृत्तवाद्यपाठ्यानां,
प्रेमणीव कोपानुशयप्रसादसङ्गमसुखानां,
गार्हस्थ्य इव धर्मार्थकाममोक्षसाधनानुष्ठानानां, काव्यशरीरेऽपि रूपकादीनां संसृष्टिरेव विशेषतः स्वदमाना रसावियोगहेतुर्भवति। अतः प्रागुपदिष्टापि यत्नतः प्रपञ्च्यते।
स तु द्विधा प्रधानाङ्गभावेन, समकक्ष्यतया च। यदाह— (काव्याद. २.३६०)
अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्ष्यता।
इत्यलङ्कारसंसृष्टेर्लक्षणीया द्वयी गतिः॥ ९॥
तत्र प्रधानस्योपकारित्वेन यद् वर्तते तदङ्गम्।
यत्तेनोपक्रियते तत्प्रधानम् (शाभा.३.१.२, वाप. २.८२)
तद्यथा— (काव्याद. २.३६१)
आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम्।
कोशदण्डसमग्राणां किमेषामस्ति दुष्करम्॥ १०॥
अत्रारविन्दानि मुग्धे तव मुखश्रियमाक्षिपन्तीत्युपमा। कोशदण्डसमग्राणां किमेषामस्ति दुष्करमिति श्लेषोपसर्जनोऽर्थान्तरन्यासः। भवन्ति चारविन्दानि कोशदण्डसमग्राणि, तेन तेषां न किंचिदशक्यमस्ति। कोशदण्डयोर्विजयसाधनत्वात्। एतेन श्लेषस्य साधनभूतार्थसमर्पकत्वादुपमायास्तु प्रकृतसाध्यवस्तुविशेष— कत्वादर्थान्तरन्यासं प्रत्यङ्गभावो विज्ञायते।
ननु चैतद् वाक्यदोषाणामदोषप्रस्तावे शब्दहीनस्य क्वचिद् विवक्षातो गुणत्वमिति वर्णितम्। उक्तं च— (काव्याद. ४.२८)
इदं हि शास्त्रमाहात्म्यदर्शनालसचेतसाम्।
अपभाषणवद् भाति न च सौभाग्यमुज्झति॥ ११॥
तत्किमत्रापभाषणं, का वा सौभाग्यत्यागहेतुविवक्षेति?
उच्यते। किमेषां दुष्करमिति षष्ठ्यनुपपत्तिरपभाषणं, 'कर्तृकर्मणोः कृति (२.३.६५)' इति षष्ठ्याः 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' (२.३.६९)' इति प्रतिषेधात्। केह सौभाग्यत्यागहेतुविवक्षा?
तत्रैके वर्णयन्ति 'अनन्तः खल्वेष शब्दसमाम्नायः। तत्र यथा—अन्नम् अजिरं विचक्षणः समाह्वयः(३.३.११८) इत्यादिषु 'अदो जग्धिः' (२.४.३६), 'अजेर्व्य' (२.४.५६), 'चक्षिङः ख्याञ्' (२.४.५४), 'एतदोऽश्' (५.३.५) इत्यादयो विशेषविधयः क्वचिद् वार्त्तिकेष्टिज्ञापकादौ प्रतिषेधान्न भवन्ति, तथेह षष्ठीप्रतिषेधोऽपि क्वचिद् विशेषवचनान्न भविष्यति। दृश्यते चेह महाकवीनामविभागेन प्रयोगः। तद्यथा—
अपि वागधिपस्य दुर्वचं वचनं तद् विदधीत विस्मयम्॥ १२॥
इति भारवेः (किरात. २.२)
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः॥ १३॥
इति कालिदासस्य (रघु. १.७२)
विषम उपन्यासः। लक्षणास्मरणे हि शिष्टप्रयोगो लक्षणमनुमापयति। यत्र तु न लक्षणस्मरणाभावमात्रं, अपि तु तद्विपरीता स्मृतिः 'न लोकाव्ययनिष्ठा— खलर्थतृनाम्' (२.३.६९) इति, तत्र किं महाकविप्रयोगस्य शक्यम् ? अतः पूर्वोक्तश्लोकार्धयोस्तद्व्याख्यातारोऽन्यथा व्याख्यानमकुर्वन्। द्रौपदी यदवोचत्तद् दुर्वचं वचनं वागधिपस्यापि विस्मयं विदधीतेति, दुरापेऽर्थे इक्ष्वाकूणां त्वदायत्ताः सिद्धय इति। एवं तर्हि शेषषष्ठी भविष्यति।