ऋतुवर्णनं शरद्वसन्तग्रीष्मवर्षादिवर्णनानि सेतुबन्ध—हरिविजय—रघुवंश—हरिवंशादौ।
रात्रिवर्णनं यथा किरातार्जुनीय—कुमारसम्भव—शिशुपालवध—हयग्रीववधादौ।
दिवसवर्णनं x x x x x x
प्रभातपूर्वाह्णापराह्णमध्याह्नवर्णनानि शिशुपालवध—रामचरित—उत्तररामचरित— किरातार्जुनीयादौ।
अर्कास्तमयवर्णनं यथा कुमारसम्भव—हरिविजय—सेतुबन्धादौ।
चन्द्रोदयवर्णनं यथा कुमारसम्भव—किरातार्जुनीय—शिशुपालवध—सेतुबन्धादाविति।
नायकनायिकाकुमारसहायवाहनादिवर्णनमित्यनेन पात्रविशेषाभिनन्दनं सूचयति। तत्र
नायकवर्णनं यथा हरिविजय—रावणविजय—जानकीहरण—रघुवंशादौ।
नायिकावर्णनं यथा कुवलयाश्वचरित—कुमारसम्भव—जानकीहरण—सुभद्राहरणादौ।
कुमारवर्णनं यथा रघुवंश—उत्तरचरित—कादम्बरी—हर्षचरितादौ।
सहायवर्णनं यथा रामायण—महाभारत—बृहत्कथा—मालतीमाधवादौ।
वाहनवर्णनं यथा हर्षचरित—कादम्बरी—हरिविजय—रावणविजयादौ।
हस्त्यश्वगरुत्मत्पुष्पकादिवर्णनादि।
मन्त्रदूतप्रयाणसङ्ग्रामाभ्युदयवर्णनमित्यनेन अर्थप्रधानचेष्टानामुपदेशात् 'चतुर्वर्गफलत्वेऽपि भूयसार्थोपदेशकृत्' महाकाव्यादिकं भवतीत्यभिधत्ते। पुरुषकारायत्तां च नायकस्य सिद्धिं सूचयति। तत्र
मन्त्रः पञ्चाङ्गः कर्मणामारम्भोपायः पुरुषद्रव्यसम्पत् देशकालविभागः विनिपातप्रतीकारः कार्यसिद्धिश्चेति। स यथा किरातार्जुनीय—शिशुपालवध— हयग्रीववध—भट्टिकाव्यादौ।
दूतस्त्रिधा— निसृष्टार्थः, परिमितार्थः शासनहरश्च। तत्र
निसृष्टार्थो यथा उद्योगपर्वणि वासुदेवः, हरिविजये वा सत्यकः।
परिमितार्थो यथा रामायणेऽङ्गदः।
शासनहरो यथा कादम्बर्यां केयूरक इति।
प्रयाणं त्रिधा— स्वशक्त्युपचये, परव्यसने, अभिमतार्थसिद्धये च। तत्र
स्वशक्त्युपचये यथा रघुवंशे।
परव्यसने यथा जरासन्धव्यसनिनः शिशुपालस्योच्छेदाय वासुदेवस्य शिशुपालवधे।
अभिमतार्थसिद्धये यथा विष्णोः पारिजातहरणाय हरिविजये, यथा वा दिव्यास्त्रलाभायार्जुनस्य किरातार्जुनीय इति।
सङ्ग्रामस्त्रिधा— समो, विषमः, समविषम इति। तत्र
समो द्वन्द्वयुद्धे चतुरङ्गयुद्धे च। द्वन्द्वयुद्धं यथा रामरावणयोः। चतुरङ्गं यथा कुरुपाण्डवानाम्।
विषमो यथा रामस्य खरदूषणत्रिशिरोभिः सह।
चतुर्दशसहस्त्राणि चतुर्दश च रक्षसाम्।
हतान्येकेन रामेण मानुषेण पदातिना॥ ३७९॥
(वारा. ३.२६.३५)
समविषमो यथा महेश्वरार्जुनयोः किरातार्जुनीये, रघुमघोनोर्वा रघुवंश इति।