Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 6 of 51 (Verses 30 shown)
एवं तर्हि इवश्रुतिसामर्थ्यात् तमसो नभसश्च द्वितीयमुपमानद्वयमुपस्थापयिष्यते। यथा प्रविश पिण्डीमिति प्रवेशनक्रिया स्वयोग्यं कर्मोपस्थापयति— प्रविश गृहं, पिण्डीकर्मापि स्वयोग्यां क्रियां पिण्डीं भक्षयेति। एवमिहापि इवः तमसि नभसि वोपमेये उपमानमपरमुपस्थापयिष्यतीति।
नैवम्। न हि तिङन्तेनोपमानमस्ति।
उच्यते— सत्युपमेये सति चोपमाने तयोश्च तुल्ये धर्मे सत्युपमानोपमेयभावः, नासति। न चेह तमसो नभसो वा संबन्ध्युपमानमुपमेयं वास्ति, यदाश्रय उपमानोपमेयभावः कल्प्यते।
ननु च इवश्रुतिरेव तमसो नभसश्च योग्यमुपमानमुपस्थापयिष्यति प्रविशपिण्डीन्यायेन। विषम उपन्यासः। प्रवेशनक्रिया स्वसिद्धये सर्वं कर्मकारकमाक्षिपति। तत्र प्रसिद्धितः प्रत्यासन्नं गृहमेव गम्यते। न चैवमिवस्य किंचित् सामर्थ्यमस्ति, येन स्वार्थसिद्धये प्रसिद्धमुपमानं तमसो नभसो वा समुपस्थापयति। उपमानोपमेयभावमन्तरेणाप्यस्य प्रयोगदर्शनात्। यथा 'कथमिवैतद् भविष्यति' इति। अस्तु तर्हि लिम्पतिंतमसोर्वर्षतिनभसोश्चोपमानोपमेयभावः। भवत्वेवम्। किं तु उपमानोपमेययोस्तुल्यधर्मो न दृश्यते, य उपमानोपमेयभावाय प्रभवति। किमन्येन लेपनं लिम्पतेर्, वर्षणं वा वर्षतेः, धर्मिणोऽन्यः कश्चिद् धर्मो भवितुमीष्टे।
ननु च यथा राहोः शिर इति भेदाभावेऽप्यवयवावयविभावः तन्निबन्धना च व्यतिरेकषष्ठी, एवं लिम्पतेर्लेपनं वर्षतेश्च वर्षणं धर्मो भविष्यतीति।
मैवम्। इह द्वयं चकास्ति, धातुर्लिम्पतिर्वर्षतिश्च, तदर्थो लेपनं वर्षणं च। तयोर्यद्युपमेयस्य तमसो नभसो वा लिम्पतिर्वर्षतिर्वा धातुरुपमानं स्यात् तस्य तेन सादृश्यं किं स्यात् ?
अथ यथामी भावाः सर्वे सारूप्यं न दधति एवमसारूप्यमपि न। ततश्चास्तित्वा— भिधेयत्वज्ञेयत्वादिभिः सर्वत्र प्रवर्ततामुपमानोपमेयभाव इति न्यायात् तमसो लिम्पतिर्नभसो वर्षतिरुपमानं भविष्यति। यद्येवं लिम्पतिरिव तमः वर्षतिरिव नभ इति प्राप्‍नोति, न लिम्पतीव वर्षतीवेति। ततो लेपनं वर्षणमेव अवशिष्यते। तत्किमस्तु तुल्यो धर्म उपमानधर्मी वा ? यदि तुल्यो धर्मः मार्गणीय उपमानधर्मी, यद्युपमानधर्मी मार्गणीयस्तुल्यो धर्मः। स चेह नास्ति।
अथ यथा राहोः शिर इति भेदाभावेऽप्यवयवावयविभावः, तथेह धर्मधर्मिभावोऽपि भविष्यति।
नैवम्। उपमानोपमेयभावस्य भेदसादृश्यप्रतिपत्तिनिबन्धनत्वात् तदभावेऽपि यस्तं मन्यते स कथं नोन्मत्तः स्यात् ? तदुक्तम्— (काव्याद. २.२२९)
'स एव धर्मो धर्मी चेत्यनुन्मत्तो न भाषते'॥ २६॥
अस्तु तर्हि तिङ्वाच्यः कर्तोपमानमिति।
कथं पुनरसौ क्रियापदे न्यग्भवति ?
श्रूयताम् षडर्थास्तिङन्तेन प्रतीयन्ते— 'क्रिया, कालः, उपग्रहः, साधनं, सङ्ख्या, पुरुष' इति। तेषु क्रियाकालात्मनेपदनिमित्तानि प्रकृतिराभिधत्ते। प्रत्ययः, साधनं, सङ्ख्यां, पुरुषं च। एतेषां तु क्रियार्थत्वात् क्रिया प्रधानं, कालात्मनेपदनिमित्ते क्रियाविशेषणत्वेन, संख्यापुरुषौ साधनविशेषणत्वेन तयोरेव न्यग्भवतः। साधनं पुनः 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इति न्यायात् प्रधानभूतमपि 'भूतं भव्यायोप— दिश्यते' इति न्यायेन क्रियासिद्धावुपात्तव्यापारं परार्थतया क्रियायां न्यग्भवति। तेनायं कर्ता स्वक्रियासिद्धावाकुलः कथमुपमानत्वेनोपमेयत्वेन वान्यदपेक्षितुं क्षमते ? एवं तर्हि योऽङ्गानि लिम्पति योऽञ्जनं वर्षति तेन क्रियोपलक्षितेन कर्त्रा तुल्यं तमो नभश्चेत्यर्थः प्रतिपत्स्यते।
नैवम्। क्रियोपलक्षितस्य कर्तुरुपमानभूतस्य शब्दन्यायबलाद् अप्रतिपत्तेः। तदुक्तम्— (काव्याद. १.७५)
न हि प्रतीतिः सुभगा शब्दन्यायविलङ्घिनी॥ २७॥
अथाध्याहारादिभिरिदमपि स्यात्। तथापि तुल्यधर्मो मार्गणीयः। तद्वदेव विप्रतिपत्तेः। न च चन्द्रमुखादिवदनभिधीयमानस्यापि तुल्यगुणस्य संप्रत्ययो भवतीति वाच्यम्।
यथेन्दुरिव ते वक्त्रमिति कान्तिः प्रतीयते।
न तथा लेपवर्षाभ्यामन्यदत्र प्रतीयते॥ २८॥
तदुपश्लेषणार्थोऽयं लिम्पतिर्ध्वान्तकर्तृकः।
अङ्गकर्मा च पुंसैवमुत्प्रेक्ष्यत इतीष्यताम्॥ २९॥
एवमञ्जनकर्मापि वर्षतिर्व्योमकर्तृकः।
क्षरणार्थश्च विदुद्भिरुत्प्रेक्ष्यत इतीष्यताम्॥ ३०॥१
मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥ ३१॥
अतः स्थितमेतत्। उत्प्रेक्षाद्वयस्योपमायाश्च तमोवर्णनपरतया तुल्यकक्ष्यत्वेनैषां संसृष्टिरिति। सा च नानलङ्कारसङ्कर इत्युक्तम्।
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →