Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 49 of 51 (Verses 30 shown)
शृणु येन गतः स कर्मणा शलभत्वं हरलोचनार्चिषि॥ ४०२॥
द्विसन्धानमित्यनेन वाक्यप्रकरणप्रबन्धानामनेकार्थानुसन्धानेन कवेः शक्तिविशेषं व्यञ्जयति। तत्र —
किञ्चिदेकमेव वाक्यं प्रकरणं प्रबन्धो वा द्वयोरर्थयोः संगच्छते।
किंचिदभिन्नार्थमेवोच्यमानमनेकेन श्रोत्रा सम्बन्धमनुभवति।
किञ्चित्पुनरेकमुद्दिश्याभिधीयमानमर्थभेदादन्येनापि सम्बध्यते। तत्र— आद्यस्योदाहरणं यथा मालतीमाधवे —
'महाभाग! सुश्लिष्टगुणतया रमणीय एष सन्निवेशः। कुतूलिनी च नो भर्तृदारिका वर्तते तस्यामभिनवो विचित्रकुसुमेषुव्यापारः। तद्भवतु कृतार्थता वैदग्ध्यस्य। फलतु निर्माणस्य रमणीयता। समासादयतु सरस एव (ष) भर्तृदारिकायाः कण्ठावलम्बनमहार्घतामिति।'
द्वितीयस्य यथा शिशुपालवधे— (माघ. १६.१)
दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ।
उपगम्य हरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद् वचः॥ ४०३॥
तृतीयस्य यथा दण्डिनो धनञ्जयस्य वा द्विसन्धानप्रबन्धौ रामायणमहाभारतार्थावनुबध्‍नाति।
चतुर्थस्य यथा कुमारसम्भवे—(कुसं. २.१८)
स्वागतं स्वानधीकारान् प्रभावैरवलम्ब्य वः।
युगपद् युगबाहुभ्यः प्राप्‍तेभ्यः प्राज्यविक्रमाः॥ ४०४॥
इत्यादिप्रकरणं चतसृष्वपि दिक्ष्ववस्थितैर्दिवौकोभिर्ब्रह्मणाभिधीयमानमभिसम्बध्यते।
पञ्चमस्य यथा कीचकवधे द्रौपदी विराटमभिभाषमाणा तेनैव वाक्येन युधिष्ठिरादीनभिभाषत इति।
मार्गद्वयानुवर्तनमित्यनेन महाकवीनां समयमुपलक्षयति। तत्र—
गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम्।
निराकरणमित्येष मार्गः प्रकृतिसुन्दरः॥ ४०५॥
वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि।
तज्जयान्नायकोत्कर्षकथनं च धिनोति नः॥ ४०६॥
किं पुनरयं नायकेन रिपोरुच्छेदः क्रियमाणो दोषवतो वा स्याद्? गुणवतो वा?
यदि दोषवतस्तदा तत एवोच्छेदः। न हि शीर्यमाणनदीतटोपविष्टप्रक्षेपणे पुरुषकारः साफल्यमनुभवति। तदुक्तं 'काष्ठमिव च घुणजग्धमविनीतपुत्रं राजकुलमनियुक्तमात्रं 'भज्येत'।
नापि गुणवतः, तस्यानुच्छेद्यत्वात् नायकस्य द्विषतो वा न कश्चिद्विशेष इति।
नैवम्; विधिनिषेधव्युत्पत्तिफलत्वात् प्रबन्धानाम्। तथा हि— रामायणादिषु गुणवतो नायकस्य उत्कर्षप्रदर्शने न दोषः। को हि गुणार्जनं प्रति यतेत यदि गुणवतोऽप्युत्छेदः स्यात्? अपि च गुणवत्त्वे तुल्ये एकस्य जयोऽन्यस्य पराजय इति नियमनिमित्तमभिधानीयम्; तन्नान्तरेण दैवं भवितुमर्हति। दैवसम्पादितायां च सिद्धौ पुरुषकारशून्यस्य नायकस्य द्विषतो वा न कश्चिद्विशेष इति।
नैवं; विधिनिषेधव्युत्पत्तिफलत्वात् प्रबन्धानाम्। तथा हि रामायणादिषु गुणवतो नायकस्य उत्कर्षप्रदर्शनेन दोषवतश्चोच्छेदप्रकाशेन एतद्‍व्युत्पाद्यते रामवद् वर्तितव्यं न रावणवत्, यथा रामस्य पितुराज्ञां परिपालयतो वनवासिनोऽपि विजयः संपन्नः, रावणस्य च परदारानभिलषतःस्त्रैलोक्यविजयिनोऽप्युच्छेदः, तथान्यस्यापि संपत्स्यत इति विधिनिषेधव्युत्पत्तिः। तदनुविधानेन च महाकाव्यादिप्रबन्धानां विरचनेति।
यत्पुनरिदमुक्तं दोषवतः समुच्छेदे स्वत एव विशीर्यमाणत्वात् क इव नायकस्योत्कर्षः? को वा गुणार्जनं प्रति यतेत, यदि गुणवतोऽप्युच्छेदः स्यात्?
तत्र न पुरुषार्थविषयत्वेन दोषवत्त्वम्; नाप्युच्छेदनिमित्तत्वेन गुणवत्त्वम्; अपि तूच्छेदनिमित्तत्वेन दोषवत्त्वं, नायकोत्कर्षप्रकाशकत्वेन च प्रतिपक्षस्य च गुणसमृद्धिर्वर्ण्यते। स्थित्यतिक्रमश्च तस्योच्छेदनिमित्तं भवति। तथा च पुराणेषु हिरण्यकशिपुप्रभृतीनां देवताराधनप्राप्‍तमहावीर्याणां त्रैलोक्यकण्टकत्वेन समुच्छेदो दृश्यते। वंशवीर्यश्रुतादिवर्णनजनितश्च तदुत्कर्षस्तज्जयान्नायकस्यैवोत्कर्षहेतुर्भवति॥
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →