Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 11

Prakāśa 11: रसावियोगप्रकाशनप्रकाशः

प्रकाशः 11 • रसावियोगप्रकाशनप्रकाशः

Prakāśa 11 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1530 Verses • Citations: SP 11.1–1530 • 4 Lexicon Terms • Page 7 of 51 (Verses 30 shown)
१. श्लोक एष काव्यादर्शे नोपलभ्यत इति राघवः, इतः २.२३४ तमरूपेण योज्य इति वयम्।
तत्रालङ्कारसङ्करः (अलङ्कार—)संसृष्टिरित्येव वक्तव्ये नानाग्रहणं गुणरसादीना— मप्यलङ्कारताप्रतिपत्त्यर्थम्। तेषामपि काव्यशोभाकरत्वेनालङ्कारत्वात्। यदाह—
काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते।
ते चाद्यापि विकल्प्यन्ते कस्तान् कार्त्स्‍न्येन वक्ष्यति॥ ३२॥
काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलङ्क्रियाः।
साधारणमलङ्कारजातमद्य प्रदर्श्यते॥ ३३॥
तत्र काव्यशोभाकरानित्यनेन श्लेषोपमादिवद् गुणरसभावतदाभासतत्प्रशमानप्यु— पसंगृह्‍णाति। मार्गविभागकृद्‍गुणानामलङ्क्रिया(यो)पदेशेन श्लेषादीनां गुणत्वमिवा— लङ्कारत्वमपि बोधयति। किं च—
श्लेषः प्रसादः समता माधुर्यं सुकुमारता।
अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥ ३४॥
इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः।
तेषां विपर्ययः प्रायो लक्ष्यते गौडवर्त्मनि॥ ३५॥
इति श्लेषादीनां दशानामेव मार्गप्रविभागकारितां ब्रुवता काव्यशोभाकरत्वेन गुणान्तराणामप्यलङ्कारत्वमुक्तं भवति। तदाह—'कस्तान् कार्त्स्‍न्येन वक्ष्यती'ति।
युक्तमिदम्, अयुक्तं तु रसादीनामलङ्कारतेति, तेषां गुणानामिवालङ्कार— व्यपदेशाभावात्
नायुक्तम्, युक्तोत्कर्षाणाम् ऊर्जस्विरसवत्प्रेयसामलङ्कारेषूपदेशात्। तद्यथा—
प्रेयः प्रियतराख्यानं रसवद् रसपेशलम्।
ऊर्जस्वि रूढाहङ्कारं युक्तोत्कर्षं च तत्त्रयम्॥ ३६॥
तत्र ऊर्जस्वि रूढाहङ्कारमित्यनेनात्मविशेषनिष्ठस्योत्कृष्टादृष्टजन्मनोऽनेकजन्मा नुभवसंस्काराऽऽसादितद्रढिम्‍नः समग्रात्मगुणसम्पदुदयातिशयहेतोरहङ्कारविशेषस्योप संग्रहादहङ्काराभिमानशृङ्गाराद्यपरनाम्‍नो रसस्य मानमयविकाररूपेणाभिमानिनां मनसि जाग्रतः पूर्वां कोटिमुपवर्णयति। यदाह—
सत्त्वात्मनाममलधर्मविशेषजन्मा जन्मान्तरानुभवनिर्मितवासनोत्थः।
सर्वात्मसम्पदुदयातिशयैकहेतुर्जागर्ति कोऽपि हृदि मानमयो विकारः॥
अहो अहो नमो मह्यं यदहं वीक्षितोऽनया।
मुग्धया त्रस्तसारङ्गतरलायतनेत्रया॥ ३८॥
तिष्ठन्त्या जनसंकुलेऽपि सुदृशा सायं गृहप्राङ्गणे तत्कालं मयि निस्सहाकुलतनौ बाहौ मृदु प्रेङ्खति।
ह्रीनम्राननयैव लोलसरलं निःश्वस्य तत्रान्तरे प्रेमार्द्राः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छटाः॥ ३९॥
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →